Book Title: Satikachatvar Karmgrantha
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा न खल्वामूलमुच्छिन्ने भवप्रपञ्चप्ररोहबीजभूते कार्मणे वपुषि शेषशरीरप्रादुर्भावसम्भवः ।
इदं च कार्मणशरीरं जन्तोगत्यन्तरसङ्क्रान्तौ साधकतमं करणम् । तथाहि—कार्मणेनैव वपुषा परिकरितो जन्तुर्मरणदेशमपहायोत्पत्तिदेशमुपसर्पति ।
ननु यदि कार्मणवपुःपरिकरितो गत्यन्तरं सङ्क्रामति तर्हि गच्छन् कस्मात् नोपलक्ष्यते ? [उच्यते-] कर्मपुद्गलानामतिसूक्ष्मतया चक्षुरादीन्द्रियागोचरत्वात् । आह च प्रज्ञाकरगुप्तोऽपि
अन्तरा भवदेहोऽपि, सूक्ष्मत्वान्नोपलक्ष्यते ।
निष्क्रामन् प्रविशन् वाऽपि, नाभावोऽनीक्षणादपि ॥ कार्मणमेव कायस्तेन योगः कार्मणकाययोगः ७ । “इय जोग" त्ति 'इतिः' परिसमाप्तौ । ततोऽयमर्थः-एत एव योगा नान्य इति ।
ननु तैजसमपि शरीरं विद्यते, यद् भुक्ताहारपरिणमनहेतुर्यद्वशाद् विशिष्टतपोविशेषसमुत्थलब्धिविशेषस्य पुरुषस्य तेजोलेश्याविनिर्गमः, तत् कथमुच्यते एत एव योगा नान्ये ? इति, नैष दोषः, सदा कार्मणेन सहाऽव्यभिचारितया तैजसस्य तद्रहणेनैव गृहीतत्वादिति ।
निरूपिताः खरूपतो योगाः । साम्प्रतमेतानेव मार्गणास्थानेषु निरूपयन्नाह-"कम्ममणहारि" ति व्यवच्छेदफलं हि वाक्यम् , अतोऽवश्यमवधारयितव्यम् । तच्चावधारणमिहैवम्-- कार्मणमेवैकमनाहारके न शेषयोगाः, असम्भवादिति । न पुनरेवम्-कार्मणमनाहारकेष्वेवेति, आहारकेष्वपि उत्पत्तिप्रथमसमये कार्मणयोगसम्भवात् , “जोएण कम्मएणं, आहारेई अणंतरं जीवो।" इति परममुनिवचनप्रामाण्यात् । नापि 'कार्मणमनाहारकेषु भवत्येव' इत्यवधारणमाधेयम् , अयोगिकेवल्यवस्थायामनाहारकस्यापि कार्मणकाययोगाभावात् , “गैयजोगो उ अजोगी" इति वचनात् । एवमन्यत्रापि यथासम्भवमवधारणविधिरनुसरणीय इति ॥ २४ ॥
नरगइ पणिंदि तस तणु, अचक्खु नर नपु कसाय सम्मदुगे।
सन्नि छलेसाहारग, भव्व मइ सुओहिदुगि सव्वे ॥ २५ ॥ 'नरगतौ' मनुष्यगतौ पञ्चेन्द्रिये 'त्रसे' त्रसकाये तनुयोगे अचक्षुर्दर्शने 'नरे' नरवेदे पुंवेद इत्यर्थः “नपु" त्ति नपुंसकवेदे 'कषायेषु' क्रोधमानमायालोभेषु 'सम्यक्त्वद्विके' क्षायोपशमिकक्षायिकलक्षणे ‘संज्ञिनि' मनोविज्ञानभाजि षट्खपि लेश्यासु आहारके भव्ये 'मतौ' मतिज्ञाने 'श्रुते' श्रुतज्ञाने 'अवधिद्विके' अवधिज्ञानाऽवधिदर्शनरूपे 'सर्वे' पञ्चदशापि योगा भवन्ति, एतेषु सर्वेष्वपि मार्गणास्थानेषु यथासम्भवं सर्वयोगप्राप्तेः । यत्तु क्वापि “जोगा अकम्मगाहारगेसु' इति पदं दृश्यते तद् न सम्यगवगम्यते, यत ऋजुगतौ विग्रहगतौ चोत्पत्तिप्रथमसमये
जोएण कम्मएणं, आहारेई अणंतरं जीवो।
तेण परं मीसेणं, जाव सरीरस्स निष्फत्ती ॥ इति सकलश्रुतधरप्रवरपरममुनिवचनप्रामाण्याद् आहारकस्यापि सतः कार्मणकाययोगोऽस्त्येव । अथ उच्येत गृह्यमाणं गृहीतमिति निश्चयनयवशात् प्रथमसमयेऽप्यौदारिकपुद्गला गृह्यमाणा १ योगेन कार्मणेनाहारयत्यनन्तरं जीवः ॥ २ गतयोगस्वयोगी ॥ ३ योगाः अकार्मणा आहारकेषु ॥
४ प्रारवत्॥
For Private and Personal Use Only

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286