Book Title: Satikachatvar Karmgrantha
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७-७९]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
२०७
इत्युक्तं त्रिविधमपि सङ्ख्येयकम् । इदानीं नवविधमसङ्ख्येयकं नवविधमेव चानन्तकं निरुरूपयिषुर्गाथायुगमाह
रूवजुयं तु परित्तासंखं लहु अस्स रासि अभासे । जुत्तासंखिज्जं लहु, आवलियासमयपरिमाणं ॥ ७८ ॥
पूर्वोक्तमेवोत्कृष्टं सङ्ख्येयकं 'रूपयुतं तु' रूपेण एकेन सर्षपेण पुनर्युक्तं सत् 'लघु' जघन्यं 'परी`त्तासङ्ख्यं' परीत्तासङ्ख्येयकं भवति । इदमत्र हृदयम् - - इह येनैकेन सर्षपरूपेण रहितोऽनन्तरोद्दिष्टो राशिरुत्कृष्टसङ्ख्यातकमुक्तं तत्र राशौ तस्यैव रूपस्य निक्षेपो यदा क्रियते तदा तदेवोत्कृष्टं सङ्ख्यातकं जघन्यं परीत्त सङ्ख्यातकं भवतीति । इह च जघन्यपरीत्ता सङ्ख्येयकेऽभिहिते यद्यपि तस्यैव मध्यमोत्कृष्टभेद प्ररूपणावसरस्तथापि परीत्तयुक्तनिजपद भेदत स्त्रिभेदानामप्यसङ्ख्येयकानां मध्यमो - त्कृष्टभेदौ पश्चादल्पवक्तव्यत्वात् प्ररूपयिष्येते, अतोऽधुना जघन्ययुक्तासङ्ख्यातकं तावदाह“अस्स रासि अब्भासे” इत्यादि अस्य राशेः - जवन्यपरीत्तासत्येयक गतराशेः 'अभ्यासे' परस्परगुने सति 'लघु' जघन्यं युक्तासयेयकं भवति । तच्च ' आवलिकासमयपरिमाणम्' आवलिका"असंखिज्जाणं समयाणं समुदयसमिइसमागमेणं" ( अनुयो० पत्र १७८-२ ) इत्यादिसिद्धान्तप्रसिद्ध। तस्याः समयाः– निर्विभागाः कालविभागास्तत्परिमाण मावलिकासमयपरिमाणम्, जघन्ययुक्तासङ्ख्येयक तुल्यसमयराशिप्रमाणा आवलिका इत्यर्थः । एतदुक्तं भवति - जघन्यपरीतासत्येयकसम्बन्धीनि यावन्ति सर्षपलक्षणानि रूपाणि तान्येकैकशः पृथक् पृथक् संस्थाप्य तत एकैकस्मिन् रूपे जघन्यपरीत्तासङ्ख्यातकप्रमाणो राशिर्व्यवस्थाप्यते, तेषां च राशीनां परस्परमभ्यासो विधीयते । इहैव भावना - -असत्कल्पनया किल जघन्यपरीता सत्येय कराशिस्थाने पञ्च रूपाणि कल्प्यन्ते, तानि वित्रियन्ते - जाताः पञ्चैककाः १११११, एककानामधः प्रत्येकं पञ्चैव वाराः पञ्च पञ्च व्यवस्थाप्यन्ते । तद्यथा - 2 । अत्र पञ्चभिः पञ्च गुणिता जाता पञ्चविंशतिः, साऽपि पञ्चभिराहता जातं पञ्चविंशं शतम् इत्यादिक्रमेणामीषां राशीनां परस्पराभ्यासे जातानि पञ्चविंशत्यधिकान्येकत्रिंशच्छतानि ३१३५ । एष कल्पनया तावदेतावन्मात्री राशिर्भवति, सद्भावतस्त्वसयरूपो जघन्ययुक्तासङ्ख्यातकतया मन्तव्य इति ॥ ७८ ॥
999
निरूपितं जघन्ययुक्तासत्येयकम् । सम्प्रति शेषजघन्यासङ्ख्याता सङ्ख्यातकभेदस्य जघन्यपरीत्तानन्तकादिस्वरूपाणां त्रयाणां जघन्यानन्तकभेदानां च स्वरूपमतिदेशतः प्रतिपिपादयिषुराह-बितिचउपंचमगुणणे, कमा सगासंख पढमचउसत्त ।
ता ते रूवजुया, मज्झा रूवूण गुरु पच्छा ॥ ७९ ॥
इह “संखिज्जेगमसंखं” ( गा० ७१ ) इत्यादिगाथोपन्यस्तोत्कृष्टसङ्ख्यातकादिमौलसप्तपदापेक्षया सङ्ख्यातकाद्यभेदविकलानि यानि परीत्तासङ्ख्यातकादीनि षट् पदानि तानि परीत्तासङ्ख्यातकानन्तानन्तक भेदद्वयविकलानि द्वित्रिचतुः पञ्च सङ्ख्यात्वेन प्रोक्तानि । ततः 'द्वित्रिचतुः पञ्चम
१ असंख्येयानां समयानां समुदयसमितिसमागमेन ॥ २ मौलसप्तपदानि त्वेतानि - उत्कृष्टसङ्ख्यातकम् १ परीत्तासख्यातकम् २ युक्तासङ्ख्यातकम् ३ असङ्ख्याता सङ्ख्यातकम् ४ परीत्तानन्तकम् ५ युक्तानन्तकम् ६ अनन्तानन्तकम् ७ ॥
For Private and Personal Use Only

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286