Book Title: Satikachatvar Karmgrantha
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 218
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८] षडशीतिनामा चतुर्थः कर्मग्रन्थः । १७३ ऊर्ध्वाधआयता एकप्रादेशिक्यः श्रेणयोऽसङ्ख्यातयोजनकोटीकोटीप्रमाणाकाशप्रदेशसूचिगतप्रदेशराशिप्रमाणास्तासां यावान् प्रदेशराशिस्तावत्प्रमाणा द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियतिर्यग्योनिपञ्चेन्द्रिया अविशेषेण सूत्रे निर्दिष्टाः, तथा चोक्तं तत्र यथोक्तरूपद्वीन्द्रियपरिमाणाभिधानानन्तरम् जह वेइंदियाणं तहा तेइंदियाणं चउरिंदियाण वि भाणियवं पंचिंदियतिरिक्खजोणियाण वि । ( अनुयो० पत्र २०४-१) इति । तथापि सूचिपरिमाणहेतुयोजनगतासङ्ख्यातरूपसङ्ख्याया बहुभेदत्वान्न यथोक्तविशेषाधिकत्वाभिधानव्याघातः । अत एव च हेतोस्तिर्यग्योनिपञ्चेन्द्रियेषु द्वीन्द्रियादितुल्यतया सूत्रेऽभिहितेष्वपि तत्रापि नरनिरयदेवप्रक्षेपेऽपि पञ्चेन्द्रियाश्चतुरिन्द्रियादिभ्यः स्तोका एव द्रष्टव्याः । यदभ्यधायि __पंचिंदिया य थोवा, विवज्जएण वियला विसेसहिया । (जीवस० गा० २७५) द्वीन्द्रियेभ्योऽपि चैकेन्द्रिया अनन्तगुणाः, वनस्पतिकायजीवराशेरनन्तानन्तत्वात् । यदुक्तमार्षे-- एएसि णं भंते ! एगिदियबेंदियतेइंदियचउरिंदियपंचिंदियाण य कयरे कयरेहितो अप्पा वा बहुआ वा विसेसाहिया वा ? गोयमा ! सबत्थोवा पंचिंदिया, चरिंदिया विसेसाहिया, तेंदिया विसेसाहिया, बेइंदिया विसेसाहिया, एगिदिया अणंतगुणा । (प्रज्ञापनापद ३ पत्र १२०-२) "तस थोब" इत्यादि । 'त्रसाः' द्वीन्द्रियादयः पूर्वनिर्दिष्टसङ्ख्यास्तेजस्कायिकादिभ्यः स्तोकाः । तेभ्यस्त्रसेभ्योऽसङ्ख्यातगुणाः “अग्गि" त्ति अग्निकायिकाः, तेषां सूक्ष्मबादरभेदभिन्नानामसङ्ख्येयलोकाकाशप्रदेशराशिप्रमाणत्वात् । तेभ्यः "भू" त्ति पृथिवीकायिका विशेषाधिकाः । तेभ्यः "जल" ति अप्कायिका विशेषाधिकाः । तेभ्यः “अनिल" त्ति वायुकायिका विशेषाधिकाः । यद्यपि च एतेषामपि पृथिवीकायिकादीनामसङ्ख्येयलोकाकाशप्रदेशराशिप्रमाणतया सूत्रे अविशेषेण निर्देशः कृतः, तथा चोक्तम् - __ जहा पुढविकाइयाणं एवं आउकाइयाणं पि। (अनु० पत्र २०२-१) इत्यादि। तथापि लोकानामसङ्ख्यातत्वस्याऽनेकभेदभिन्नत्वादिहैवं विशेषाधिकत्वाभिधानेऽपि न कश्चिदोषः । उक्तं च श्रीप्रज्ञापनायाम् "ऐएसि णं भंते ! तसकाइयाणं पुढविकाइयाणं आउकाइयाणं तेउकाइयाणं वाउकाइयाणं १ यथा द्वीन्द्रियाणां तथा त्रीन्द्रियाणां चतुरिन्द्रियाणामपि भणितव्यं पञ्चेन्द्रियतिर्यग्योनिकानामपि ॥ २ पञ्चेन्द्रियाश्च स्तोका विपर्ययेण विकला विशेषाधिकाः ॥ ३ एतेषां भदन्त ! एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाणां च कतरे कतरेभ्योऽल्पा वा बहका वा विशेषाधिका वा? गौतम! सर्वस्तोकाः पञ्चेन्द्रियाः, चतुरिन्द्रिया विशेषाधिकाः, त्रीन्द्रिया विशेषाधिकाः, द्वीन्द्रिया विशेषाधिकाः, एकेन्द्रिया अनन्तगुणाः ॥ ४ यथा पृथ्वीकायिकानामेवमकायिकानामपि ॥ ५ एतेषां भदन्त ! जसकायिकानां पृथ्वीकायिकानामप्कायिकानां तेजस्कायिकानां वायुकायिकानां वनस्पतिकायिकानामकायिकानां च कतरे कतरेभ्योऽल्पा वा बहका वा तुल्या वा विशेषाधिका वा? गौतम! सर्वस्तोकास्त्रसकायिकाः, तेजस्कायिका असङ्ख्येयगुणाः, पृथ्वीकायिका विशेषाधिकाः, अप्कायिका विशेषाधिकाः, वायुकायिका विशेषाधिकाः, अकायिका अनन्तगुणाः, वनस्पतिकायिका अनन्तगुणाः ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286