Book Title: Satikachatvar Karmgrantha
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 245
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०० देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा पदानि तैर्युक्तं-समन्वितं सत् , किम् ? इत्याह-'त्रिविधं' त्रिप्रकारं भवति । यथा-परीत्तासङ्ख्येयकं १ युक्तासङ्ख्येयकम् २ असङ्ख्यातासङ्ख्येयकम् ३ इति उक्तं त्रिधाऽसङ्खधेयकम् । अधुना त्रिविधमनन्तकमाह- "एवमणंतं पि तिह'' त्ति 'एवम्' अनेनानन्तरप्रदर्शितप्रकारेण परीत्तयुक्तनिजपदयुक्तलक्षणेन 'अनन्तमपि' अनन्तकमपि न केवलमसङ्ख्येयकमित्यपिशब्दार्थः 'त्रिधा' त्रिप्रकारं वेदितव्यम् , तद्यथा--परीत्तानन्तकं १ युक्तानन्तकम् २ अनन्तानन्तकम् ३ इति । एवमेतानि समुदितानि सप्तापि पदानि पुनरेकैकशस्त्रिरूपाणि भवन्तीति दर्शयितुमाह-"जहन्नमज्झुक्कसा सवे" त्ति प्राकृतत्वाल्लिङ्गव्यत्ययाद् 'जघन्यमध्यमोत्कृष्टानि' जघन्य. मध्यमोत्कृष्टभेदभिन्नानि 'सर्वाणि' समस्तानि एकैकशः सप्तापि पदानि वेदितव्यानीत्यर्थः । तथाहि-जघन्यसङ्ख्येयकं मध्यमसङ्ख्येयकम् उत्कृष्ट सङ्ख्येयकम् । तथा जघन्यपरीत्तासङ्ख्येयकं मध्यमपरीत्तासङ्ख्येयकम् उत्कृष्टपरीत्तासङ्ख्येयकम् । जघन्ययुक्तासङ्ख्येयकं मध्यमयुक्तासङ्ख्येयकम् उत्कृष्टयुक्तासङ्खधेयकम् । जघन्यासङ्ख्यातासङ्ख्थेयकं मध्यमासङ्ख्यातासङ्ख्येयकम् उत्कृष्टासङ्ख्यातासयेयकम् । तथा जघन्यपरीत्तानन्तकं मध्यमपरीत्तानन्तकम् उत्कृष्टपरीत्तानन्तकम् । जघन्ययुक्तानन्तकं मध्यमयुक्तानन्तकम् उत्कृष्टयुक्तानन्तकम् । जघन्यानन्तानन्तकं मध्यमानन्तानन्तकम् उत्कृष्टानन्तानन्तकम् । तदेवं सङ्ख्यातकं त्रिधा असङ्ख्यातमनन्तकं च नवधा भवतीति ॥ ७१॥ तदेवं सङ्ख्येयकादिभेदप्ररूपणामात्रं कृत्वा विस्तरतस्तत्वरूपं निरूपयिषुः सङ्ख्यातकं विधेति यदुद्दिष्टं तद् विवृण्वन्नाह- लहु संखिजं दु चिय, अओ परं मज्झिमं तु जा गुरुयं । जंबूद्दीवपमाणयचउपल्लपरूवणाइ इमं ॥७२॥ इहैकको गणनसङ्ख्यां न लभते, यत एकस्मिन् घटादौ दृष्टे घटादि वस्त्विदं तिष्ठतीत्येवमेव प्रायः प्रतीतिरुत्पद्यते, नैकसख्याविषयत्वेन । अथवा आदानसमर्पणादिव्यवहारकाले एकं वस्तु प्रायो न कश्चिद् गणयति, अतोऽसंव्यवहार्यत्वादल्पत्वाद्वा नैको गणनसङ्ख्यां लभते, तस्माद् द्विप्रभृतिरेव गणनसङ्ख्या । अत एवाह-'सहयेयं' सङ्ख्यातकं 'लघु' जघन्य-हूखं, चियशब्दस्याऽवधारणार्थत्वात् , यदाहुः श्रीहेमचन्द्रसूरिपादाः प्राकृतलक्षणे-"णइ चेअ चिय च अवधारणे" (सि०८-२-१८४) द्वावेव, नैकः, पूर्वोदितयुक्तेः । 'अतः परम्' एतस्माद् द्विकभूतजघन्यसङ्ख्यातकादूर्व मध्यमं तु सङ्ख्यातकं पुनस्त्रिचतुरादिकमनेकप्रकारं भवति । कियङ्करं यावद् मध्यमं भवति ? इत्याह-"जा गुरुयं" ति 'यावद्' इत्यवधौ ‘गुरुकम्' उत्कृष्टं-सर्वोपरिवर्ति सङ्ख्यातकं प्राप्नोतीति शेषः । अथेदमेव गुरुकं सङ्ख्यातकं कथं विज्ञेयम् ? इत्याह---'इदम्' अधुनैव वक्ष्यमाणखरूपं गुरुकं सङ्ख्यातकं ज्ञेयमिति शेषः । कया ? 'जम्बूद्वीपप्रमाणचतुष्पल्यप्ररूपणया' जम्बूनाम्ना वृक्षणोपलक्षितो द्वीपो जम्बूद्वीपस्तेन जम्बूद्वीपेन प्रमाणम्-इयत्तावधारणं येषां ते जम्बूद्वीपप्रमाणकास्ते च ते चत्वारः-चतुःसङ्ख्याः पल्याश्च-धान्यपल्या इव जम्बूद्वीपप्रमाणकचतुःपल्यास्तेषां प्रकृष्टरूपा प्ररूपणा-व्यावर्णना तया । एतदुक्तं भवति-यथा जम्बूद्वीपो लक्षयोजनप्रमाण एवमेतेऽप्यायामविष्कम्भाभ्यां प्रत्येकं लक्षयोजनप्रमाणा वृत्ताकारत्वाच्च परिधिना, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286