Book Title: Satikachatvar Karmgrantha
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।। १५९ श्रीकुलगृहस्य भगवतः केवलिनः सम्भवति, तस्य हि समुद्धातगतस्य तृतीयचतुर्थपञ्चमसमयेषु कार्मणम् , “कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च ।” (प्रश० का०२७७) इति वचनात् , द्वितीयषष्ठसप्तमसमयेप्वौदारिकमिश्रम् , “मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥” (प्रश० का० २७६) इति वचनाद् अवाप्यत इति यथाख्यातसंयमे द्वयोरपि सम्भवात् । ___ अथ विनेयजनानुग्रहाय केवलिसमुद्धातखरूपमभिधीयते--तत्र सम्यग्-अपुनर्भावेन उत्प्राबल्येन कर्मणो हननं--घातः प्रलयो यस्मिन् प्रयत्नविशेषे स समुद्धातः । अयं च केवलिसमुद्धातोऽष्टसामयिकः, तं च प्रारभमाणः प्रथममेवाऽऽयोजिकाकरणमान्तर्गौहूर्तिकमुदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपमभ्येति । अथाऽऽयोजिकाकरणमिति कः शब्दार्थः ? उच्यते"आङ् मर्यादायाम्" आ-मर्यादया केवलिदृष्टया योजनं-शुभानां योगानां व्यापारणमायोजिका, “भावे” (सि० ५-३-१२२) णकः, तस्याः करणमायोजिकाकरणम् । आह च
कइसमइए णं भंते ! आओजीकरणे पन्नत्ते ? गोयमा ! असंखेज्जसमइए अंतोमुहुत्तिए आओजीकरणे पन्नते ॥ (प्रज्ञापनापत्र ६०१-१) ___ अयं कृतकृत्योऽपि केवली किमर्थं समुद्धातं करोति ? इति चेद, उच्यते-वेदनीयनामगोत्राणामायुषा सह समीकरणार्थम् । यदाह भगवान् श्रीभद्रबाहुस्वामी
'नाऊण वेयणिजं, अइबहुयं आउयं च थोवागं ।
गंतूण समुग्घायं, खवेइ कम्मं निरवसेसं ॥ (आ. नि. गा. ९५४) प्रज्ञापनायामप्युक्तम्--
कम्हा णं भंते ! केवली समुग्धायं गच्छइ ? गोयमा ! केवलिस्स चत्तारि कम्मंसा अक्खीणा अवेइया अणिजिन्ना भवन्ति । तं जहा-वेयणिज्जे आउए नामे गोए । सबबहुए से वेयणिजे कम्मे हवइ, सबथोवे से आउए कम्मे हवइ, विसमं समं करेइ बंधणेहिं ठिईहि य, विसमसमीकरणयाए बंधणेहिं ठिईहि य एवं खलु केवली समुग्घायं गच्छइ ॥ (पत्र ६०१-१)
"बंधणेहिं" ति बध्यन्त आत्मप्रदेशैः सह लोलीभावेन संश्लिष्टाः क्रियन्ते योगवशाद ये ते बन्धनाः, “भुजिपत्यादिभ्यः कर्मापादाने" (सि० ५-३-१२८) इति कर्मण्यनटू, कर्मपरमाणवः, स्थितयः-वेदनाकालाः, शेषं सुगमम् । उक्तं च
आयुषि समाप्यमाने, शेषाणां कर्मणां यदि समाप्तिः । न स्यात् स्थितिवैषम्याद्, गच्छति स ततः समुद्धातम् ॥ स्थित्या च बन्धनेन च, समीक्रियार्थ हि कर्मणां तेषाम् ।
अन्तर्मुहूर्तशेषे, तदायुषि समुजिघांसति सः ॥ १ कतिसामयिकं भदन्त ! आयोजिकाकरणं प्रज्ञप्तम् ? गौतम ! असङ्ख्येयसामयिकमान्तौहर्तिकम् आयोजिकाकरणं प्रज्ञप्तम् ॥ २ ज्ञावा वेदनीयं अतिबहुकं आयुष्कं च स्तोकम् । गवा समुद्धातं क्षपयति कर्म निरवशेषम् ॥ ३ कस्माद भदन्त ! केवली समुद्धातं गच्छति? गौतम ! केवलिनश्चत्वारः कर्माशा अक्षीणा अवेदिता अनिर्जीर्णा भवन्ति । तद्यथा-वेदनीयं आयुष्कं नाम गोत्रम् । सर्वबहुकं तस्य वेदनीयं कर्म भवति, सर्वस्तोकं तस्यायुःकर्म भवति, विषमं समं करोति, बन्धनैः स्थितिभिश्च, विषमस्य समकरणाय बन्धनैः स्थितिभिश्च एवं खलु केवली समुद्धातं गच्छति ।।
For Private and Personal Use Only

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286