Book Title: Satikachatvar Karmgrantha
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(गाथा
१९८
देवेन्द्रसूरिविरचितखोपाटीकोपैतः शमिकमावभेदः प्राप्यते, औपशमिकचारित्रलक्षणस्त्वनिवृत्तेरारभ्योपशान्तं यावत् प्राप्यते ।
क्षायिकभावभेदश्च क्षायिकसम्यक्त्वरूपोऽविरतादारभ्योपशान्तं यावत् प्राप्यते, क्षीणमोहे च सायिकं सम्यक्त्वं चारित्रं च प्राप्यते, सयोगिकेवल्ययोगिकेवलिनोस्तु नवापि क्षायिकभावाः प्राप्यन्ते। __पारिणामिकभावभेदा मिथ्यादृष्टौ त्रयोऽपि, साखादनादारभ्य च क्षीणमोहं यावदभव्यत्ववर्जी द्वौ भवतः, सयोगिकेवल्ययोगिकेवलिनोस्तु जीवत्वमेवेति, भव्यत्वस्य च प्रत्यासन्नसिद्धावस्थायामभावादधुनाऽपि तदपगतप्रायत्वादिना केनचित् कारणेन शास्त्रान्तरेषु नोक्तमिति नास्माभिरप्यत्रोच्यते । __ यस्य भावस्य भेदा यस्मिन् गुणस्थानके यावन्त उक्तास्तेषां सम्भविभावभेदानामेकत्र मीलने सति तावद्भेदनिष्पन्नः षष्ठः सान्निपातिकभावभेदस्तस्मिन् गुणस्थानके भवति । यथा- मिथ्यादृष्टावौदयिकभावभेदा एकविंशतिः, क्षायोपशमिकभावभेदा दश, पारिणामिकभावभेदास्त्रयः, सर्वे भेदाश्चतुस्त्रिंशत् । एवं साखादनादिष्वपि सम्भविभावभेदमीलने तावद्भेदनिष्पन्नः षष्ठः सान्निपातिकभावभेदो वाच्यः । एतदर्थसङ्ग्राहिण्यश्चैता गाथा यथा
"पण अंतराय अन्नाण तिन्नि अञ्चक्खुचक्खु दस एए। मिच्छे साणे य हवंति मीसए अंतराय पण ॥ नाणतिग दसणतिगं, मीसगसम्मं च बारस हवंति । एवं च अविरयम्मि वि, नवरि तहिं दसणं सुद्धं ॥ देसे य देसविरई, तेरसमा तह पमत्तअपमत्ते । मणपज्जवपक्खेवा, चउदस अप्पुवकरणे उ॥ वेयगसम्मेण विणा, तेरस जा सुहुमसंपराउ ति । ते चिय उवसमखीणे, चरित्तविरहेण बारस उ॥ खाओक्समिगभावाण कित्तणा गुणपए पडुच्च कया । उदइयभावे इण्हि, ते चेव पडुच्च दंसेमि ॥ चउगइयाई इगवीस मिच्छि साणे य हुंति वीसं च । मिच्छेण विणा मीसे, इगुणीसमनाणविरहेण ॥ एमेव अविस्यम्मी, सुरनारयगइविओगओ देसे ।
सत्तरस हुंति ते चिय, तिरिगइअस्संजमाभावा ॥ पश्चान्तरायाः अज्ञानानि त्रीणि अचक्षुश्चक्षुः दश एते । मिथ्याले सासादने च भवन्ति मिश्रके अन्त. स्याः पञ्चकानत्रिकं दर्शनत्रिकं मिश्रसम्यक्त्वं च द्वादश भवन्ति । एवं चाविरतेऽपि नवरं तत्र दर्शनं झुद्धम् । देशे च देशविरतिस्त्रयोदशी तथा प्रमत्ताप्रमत्तयोः । मनःपर्यवप्रक्षेपात् चतुर्दश अपूर्वकरणे तु ॥ वेदकसम्यकलेन विना त्रयोदश यावत् सूक्ष्मसम्पराय इति । त एव उपशान्तक्षीणयोः चारित्रविरहेण द्वादश तु॥ क्षायोपशमिकभावानां कीर्तना गुणपदानि प्रतीत्य कृता । औदयिकभावे इदानी तान्येव प्रतीत्य दर्शयामि ॥ चतुर्गत्यादिका एकविंशतिर्मिथ्याले सासादने च भवन्ति विंशतिश्च । मिथ्याखेन विना मिश्रे एकोनविंशतिरक्षा जविरहेण एवमेवानिरते सुरनारकपतिविन्योयतो देशे। ससदश भवन्ति त एव निर्मग्गल्यसंसथाभावात् ।।
For Private and Personal Use Only

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286