Book Title: Satikachatvar Karmgrantha
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 188
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४-१५] षडशीतिनामा चतुर्थः कर्मग्रन्थः । १४३ अणबंधोदयमाउगबंधं कालं च सासणो कुणई । उवसमसम्मपिट्ठी, चउण्हमिकं पि नो कुणई ॥ उपशमश्रेणेम॒त्वाऽनुत्तरसुरेषूत्पन्नस्याऽपर्याप्तकस्यैतल्लभ्यते इति चेद् नन्वेतदपि न बहु मन्यामहे, तस्य प्रथमसमय एव सम्यक्त्वपुद्गलोदयात् क्षायोपशमिकं सम्यक्त्वं भवति न त्वौपशमिकम् । उक्तं च शतकबृहचूर्णी-- 'जो उवसमसम्मद्दिट्टी उवसमसेढीए कालं करेइ सो पढमसमए चेव सम्मत्तपुंजं उदयावलियाए छोढूण सम्मत्तपुग्गले वेएइ, तेण न उवसमसम्मद्दिट्टी अपज्जत्तगो लब्भइ इत्यादि । तस्मात् पर्याप्तसंज्ञिलक्षणमेकमेव जीवस्थानकमत्र प्राप्यत इति स्थितम् ।। ___ अपरे पुनराहुः--भवत्येवापर्याप्तावस्थायामप्यौपशमिकं सम्यक्त्वम् , सप्ततिचूादिषु तथाभिधानात् । सप्ततिचूर्णी हि गुणस्थानकेषु नामकर्मणो बन्धोदयादिमार्गणावसरेऽविरतसम्यग्दृष्टेरुदयस्थानचिन्तायां पञ्चविंशत्युदयः सप्तविंशत्युदयश्च देवनारकानधिकृत्योक्तः, तत्र नारकाः क्षायिकवेदकसम्यग्दृष्टयः, देवास्तु त्रिविधसम्यग्दृष्टयोऽपि । तथा च तद्वन्थः __पैणवीससत्तावीसोदया देवनेरइए पड्डुच्च, नेरइगो दयगवेयगसम्मविट्ठी देवो तिविहसम्मट्टिी वि ॥ पञ्चविंशत्युदयश्च शरीरपर्याप्तिं निवर्तयतः । तथाहि-निर्माणस्थिरास्थिरागुरुलघुशुभाशुभतैजसकार्मणवर्णगन्धरसस्पर्शचतुष्कदेवगतिदेवानुपूर्वीपञ्चेन्द्रियजातित्रसबादरपर्याप्तकं सुभगदुर्भगयोरेकतरम् आदेयानादेययोरेकतरं यशःकीर्त्ययशःकीोरेकतरमित्येकविंशतिः, ततः शरीरपर्याप्त्या पर्याप्तस्य वैक्रियद्विकोपघातप्रत्येकसमचतुरस्रलक्षणप्रकृतिपञ्चकक्षेपे देवानुपूर्व्यपनयने च पञ्चविंशतिर्भवति । ततः शरीरपर्याप्त्या पर्याप्तस्य शेषपर्याप्तिभिः पुनरपर्याप्तस्य पराघातप्रशस्तविहायोगतिक्षेपे सप्तविंशतिर्भवति । ततोऽपर्याप्तावस्थायामपीह देवस्यौपशमिकं सम्यक्त्वमुक्तम् । तथा पञ्चसङ्ग्रहेऽपि मार्गणास्थानकेषु जीवस्थानकचिन्तायामौपशमिकसम्यक्त्वे "उँवसमसम्मम्मि दो सन्नी" इत्यनेन ग्रन्थेन संज्ञिद्विकमुक्तम् । ततः सप्ततिचूर्ण्यभिप्रायेण पञ्चसङ्ग्रहाभिप्रायेण चास्माभिरपि औपशमिकसम्यक्त्वे संज्ञिद्विकमुक्तम् , तत्त्वं तु केवलिनो विशिष्टबहुश्रुता वा विदन्तीति ॥ १४ ॥ तमसन्निअपजजुयं, नरे सवायरअपज तेऊए । थावर इगिंदि पढमा, चउ बार असन्नि दु दु विगले ॥१५॥ 'तत्' पूर्वोक्तं संज्ञिद्विकमपर्याप्तासंज्ञियुतं 'नरे' नरेषु लभ्यते, जातावेकवचनम् । अयमर्थः १ अनन्तानुबन्धिबन्धोदयं आयुर्वन्धं कालं च सासादनः करोति । औपशमिकसम्यग्दृष्टिश्चतुर्णामेकमपि न करोति ॥ २ य उपशमसम्यग्दृष्टिरुपशमश्रेणी कालं करोति स प्रथमसमय एव सम्यक्त्वपुजं उदयावलिकायां क्षिप्वा सम्यक्त्वपुद्गलान् वेदयति तेन नोपशमसम्यग्दृष्टिरपर्याप्तको लभ्यते ॥ ३ पञ्चविंशतिसप्तविंशत्युदयौ देवनैरयिकान् प्रतीत्य, नैरयिकः क्षायिकवेदकसम्यग्दृष्टिदेवस्त्रिविधसम्यग्दृष्टिरपि ॥ ४ खइग° क० ख० ग० घ० उ०॥ ५ इत ऊर्दू-"शेषपर्याप्तिभिरपर्याप्तस्य" इत्येष पाठो जैनधर्मप्रसारकसंसत्प्रकाशिते. पुस्तकेऽधिको दृश्यते, परमस्मत्पार्श्ववर्तिषु पञ्चखपि पुस्तकादशेषु नास्ति अतो मूले नादृत इति ॥ ६ उपशमसम्यक्त्वे द्वौ संज्ञिनौ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286