Book Title: Satikachatvar Karmgrantha
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा 'पञ्चदश योगाः' अत्रैव व्याख्यातखरूपाः । 'इति' अमुना प्रदर्शितप्रकारेण पञ्चद्वादशपञ्चविंशतिपञ्चदशलक्षणेन सप्तपञ्चाशत् पुनरुत्तरभेदा बन्धस्य भवन्तीति ॥
प्रदार्शता बन्धस्य मूलहेतवश्चत्वार उत्तरे सप्तपञ्चाशत्सङ्ख्याः । अधुना बन्धस्य मूलहेतून् गुणस्थानकेषु चिन्तयन्नाह-"इगचउपणतिगुणेसुं" इत्यादि । इहैवं पदघटना-'एकस्मिन्' मिथ्यादृष्टिलक्षणे गुणस्थानके चत्वारः-मिथ्यात्वाविरतिकषाययोगलक्षणाः प्रत्ययाः-हेतवो यस्य स चतुःप्रत्ययो बन्धो भवति । अयमर्थः-मिथ्यात्वादिभिश्चतुर्भिः प्रत्यौर्मिथ्यादृष्टिगुणस्थानकवर्ती जन्तुर्ज्ञानावरणादिकर्म बध्नाति । तथा 'चतुर्यु' गुणस्थानकेषु सास्वादनमिश्राविरतदेशविरतलक्षणेषु त्रयः-मिथ्यात्वविवर्जिता अविरतिकषाययोगलक्षणाः प्रत्यया यस्य स त्रिप्रत्ययो बन्धो भवतीति । अयमर्थः-साखादनादयश्चत्वारो मिथ्यात्वोदयाभावात् तद्व स्त्रिभिः प्रत्ययैः कर्म बध्नन्ति । देशविरतगुणस्थानके यद्यपि देशतः स्थूलप्राणातिपातविषया विरतिरस्ति तथापि साऽल्पत्वाद् नेह विवक्षिता, विरतिशब्देन इह सर्वविरतेरेव विवक्षितत्वादिति । तथा 'पञ्चसु' गुणस्थानकेषु प्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायलक्षणेषु द्वौ प्रत्ययौ-कषाययोगाभिख्यौ यस्य स द्विप्रत्ययो बन्धो भवति । इदमुक्तं भवति-मिथ्यात्वाविरतिप्रत्ययद्वयस्य एतेष्वभावात् शेषेण कषाययोगप्रत्ययद्वयेनाऽमी प्रमत्तादयः कर्म बध्नन्तीति । तथा 'त्रिषु' उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणेषु गुणस्थानकेषु एक एव मिथ्यात्वाविरतिकषायाभावाद् योगलक्षणः प्रत्ययो यस्य स एकप्रत्ययो भवति । अयोगिकेवली भगवान् सर्वथाऽप्यबन्धक इति ॥ ५२ ॥ भाविता मूलबन्धहेतवो गुणस्थानकेषु । सम्प्रत्येतानेव मूलबन्धहेतून् विनेयवर्गानुग्रहार्थमुत्तरप्रकृतीराश्रित्य चिन्तयन्नाह
चउमिच्छमिच्छअविरइपच्चइया सायसोलपणतीसा।
जोग विणु तिपच्चइयाऽऽहारगजिणवज सेसाओ ।। ५३ ॥ प्रत्ययशब्दस्य प्रत्येकं सम्बन्धात् चतुःप्रत्ययिका सातलक्षणा प्रकृतिः । मिथ्यात्वप्रत्ययिकाः षोडश प्रकृतयः । मिथ्यात्वाविरतिप्रत्ययिकाः पञ्चत्रिंशत् प्रकृतयः । योगं विना 'त्रिप्रत्ययिकाः' मिथ्यात्वाविरतिकषायप्रत्ययिका आहारकद्विकजिनवर्जाः शेषाः प्रकृतय इति गाथाक्षरार्थः । भावार्थः पुनरयम्-सातलक्षणा प्रकृतिश्चत्वारः प्रत्यया मिथ्यात्वाविरतिकषाययोगा यस्याः सा चतुःप्रत्ययिका, "अतोऽनेकखराद्' (सि० ७-२-६) इतीकप्रत्ययः, मिथ्यात्वादिभिश्चतुर्भिरपि प्रत्ययैः सातं बध्यत इत्यर्थः । तथाहि-सातं मिथ्यादृष्टौ बध्यत इति मिथ्यात्वप्रत्ययम् , शेषा अप्यविरत्यादयस्त्रयः प्रत्ययाः सन्ति, केवलं मिथ्यात्वस्य एवेह प्राधान्येन विवक्षितत्वात् ते तदन्तर्गतत्वेनैव विवक्षिताः, एवमुत्तरत्रापि । तदेव मिथ्यात्वाभावेऽप्यविरतिमत्सु साखादनादिषु बध्यत इत्यविरतिप्रत्ययम् । तदेव कषाययोगवत्सु प्रमत्तादिषु सूक्ष्मसम्परायावसानेषु बध्यत इति कषायप्रत्ययम् , योगप्रत्ययस्तु पूर्ववत् तदन्तर्गतो विवक्ष्यते । तदेवोपशान्तादिषु केवलयोगवत्सु मिथ्यात्वाविरतिकषायाभावेऽपि बध्यत इति योगप्रत्ययमिति । एवं सातलक्षणा प्रकृतिश्चतुःप्रत्ययिका । तथा मिथ्यात्वप्रत्ययिकाः षोडश प्रकृतयः । इह यासां कर्मस्तवे"नरयतिग ३ जाइ ४ थावरचउ ४ हुंडा१ऽऽयव १ छिवट्ठ १ नपु १ मिच्छं १ । सोलंतो"
For Private and Personal Use Only

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286