SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ . [९२] उपपन्नं भवतीति । एवञ्चात्र “विपरीतज्ञपक्षकमनुमानमिदं भवदनिष्टसाधनम् अनेकान्तदर्शनसाधकत्वादित्यनुमानं फलतीति ।।२६।। कुत्सितज्ञस्य पक्षतयाऽभिमतत्वेऽप्याह इत्येव कुत्सितज्ञश्चेत्, कुत्सिता नरकादयः । तज्ज्ञानसाधने तस्य, भवेदिष्टप्रसाधनम् ॥ २७ ॥ (अन्वयः) इत्येवम् , चेत्, कुत्सितज्ञः, कुत्सिताः, नरकादयः, तस्य, तज्ज्ञानसाधने, इष्टप्रसाधनम् , भवेत् ॥ वृत्तिः–इत्येवम्-इत्यनेन प्रकारेण । चेत्-यदि । कुत्सितज्ञःकुत्सितं निन्दितं जानातीति तथा, पक्षतयाऽभिमतो भवतामितिशेषः । (तर्हि) कुत्सिताः-निन्दताः । नरकादय:-नरकप्रमुखाः । प्रायः सर्व एव लौकिका इति यावत् । एवञ्च समस्तनरकादिविषयकज्ञानवत्त्वमवश्यमपेक्षणीयं स्यात् । तस्य-कुत्सितज्ञस्य । तज्ज्ञानसाधने-अखिलकुत्सितपदार्थविषयकज्ञानसाधने । इष्टप्रसा. धनम्-इष्टस्य-अभिमतस्य अखिलकुत्सितपदार्थविषयकज्ञानवत: सर्वज्ञस्येति यावत् प्रसाधनम्-प्रकर्षेण साधनम् , इष्टप्रसाधनम् , तस्मिन् तथा । भवेत्-स्यात् । एवञ्च कुत्सितज्ञपक्षकमनुमानमिदमस्मदभिमतसाधकम् , फलतः सर्वज्ञसाधकत्वादिति । ननु न मया विपरीतज्ञः कुत्सितज्ञो वा पक्षः क्रियते किन्तु यः किश्चिन्न जानीते एवंविधोऽकिश्चिज्ज्ञस्तत्र सर्वज्ञभेदसाधने न तवेष्टसिद्धिरित्याशङ्कय समाधत्ते-अथेत्यादिना अथ किञ्चिन्न जानीते, ताहरवक्ता कथं भवेत् ? । एवं तावत्पतिज्ञार्थः, सर्वथा नोपपद्यते ॥ २८ ॥
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy