Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library

View full book text
Previous | Next

Page 85
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३६ श्रीभुवनसुन्दर सूरिकृतटीकायुतं २८ अयं शब्दः एतन्निष्ठानित्यत्वात्यन्ताभावाप्रतियोगिकत्वानधिकरणात्यन्ताभाववान् मेयत्वादिति ॥ ये पक्षीकृतशब्दधर्मा अनित्यत्वात्यन्ताभावप्रतियोगिकत्वरहिताः तेषु एतन्निष्ठानित्यत्वात्यन्ताभावाप्रतियोगिकत्वं धर्मः, तदनधिकरणं तद्रहितः, एतन्निष्ठानित्यत्वात्यन्ताभावाप्रतियोगिकत्वानधिकरणचासौ अत्यन्ताभावश्च तदधिकरणमित्यर्थः । एतन्निष्ठानित्यत्वात्यन्ताभावाप्रतियोगिकत्वानधिकरणवानित्युक्ते अनित्यत्वात्यन्ताभावप्रतियोगिवेन अनित्यत्वात्यन्ताभावान्योन्याभावेन पक्षीकृतशब्द नित्यत्वेऽप्युपपद्यमानेनार्थान्तरता स्यात् । तन्निवृत्यर्थमत्यन्ताभावग्रहणम् । एतन्निष्ठानित्यत्वात्यन्ताभावप्रतियो frकत्वानधिकरणमत्यन्ताभावः एतन्निष्ठत्वरहितो वा स्यात्, अनित्यत्वात्यन्ताभावप्रतियोगिकोऽत्यन्ताभावो वा । आद्यः पक्षे व्याहतः । द्वितीयस्त्वनित्यत्वमेव । अनित्यत्वात्यन्ताभावात्यन्ताभावस्य अनित्यत्वानतिरेकात् तत्तुल्ययोगक्षेमत्वाद्वा इत्यनित्यत्वसिद्धिः ॥ २८ ॥ Acharya Shri Kailassagarsuri Gyanmandir २८ ( भुवन० ) - अयं शब्दः एतन्निष्टानित्यत्वात्यन्ताभावाप्रतियोगिकत्वानधिकरणात्यन्ताभाववानिति । अनित्यत्वात्यन्ताभावो नित्यत्वमप्रतियोगी यस्य अत्यन्ताभावस्य असौ अनित्यत्वात्यन्ताभावाप्रतियोगिकः । एतस्मिन् पक्षितशब्दे निष्ठा यस्य स तथा । एतन्निष्ठास अनित्यत्वात्यन्ताभावाप्रतियोगिकञ्च एतन्निष्ठात्यन्ताभावाप्रतियोगिकः । तस्य भावः तत्त्वम् । तस्य अनधिकरणं योऽत्यन्ताभावः तद्वान् शब्द इति समासः । अनित्यत्वात्यन्ताभावाप्रतियोगिकपदेन नित्यत्वात्यन्ताभावं विना सर्वेऽपि घटत्वपटत्त्रशब्दत्वादिप्रतियोगिका अत्यन्ताभावा उपात्ताः । एतन्निष्टविशेषणसहितेन च तेन पदेन शब्दत्वादिशब्दवर्मात्यन्ताभावाः पूर्वविशेषणायाताः पृथकृतत्वान्नित्यत्वात्यन्ताभावश्च निषिद्धाः | तत्त्वानधिकरणात्यन्ताभावपदेन च घटत्वपटत्वाद्यत्यन्ताभावा एतन्निष्ठेतिविशेषणायाताः सर्वेऽपि निषिद्धाः । शब्दधर्मात्यन्ताभावनित्यत्वात्यन्ताभावौ च पुनरप्युपात्तौ । तत्र पक्षीकृतशब्दे एतच्छदुधर्मात्यन्ताभावसाधने व्याघात इति नित्यत्वात्यन्ताभावः पक्षीकृतशब्दे साध्यते इति शब्दानित्यत्वसिद्धिः । अनुमानार्थ व्याचष्टे - ये पक्षीकृतशब्दधर्मा इत्यादि । पक्षीकृतशर्मा इह घटत्वाकाशत्वाद्यभावाः । तेषां सर्वेषामपि पक्षीकृतशब्दनिष्ठत्वात् । एतावता अनुमानस्थमेतन्निष्ठेतिपदं व्याख्यातम् । अनित्यत्वात्यन्ताभावेति । अनित्यत्वात्यन्ताभावो नित्यत्वं प्रतियोगी यस्य स तथा । तद्भावः तत्त्वम् । तेन रहिताः । पक्षीकृतशब्दधर्माः सन्तो येऽनित्यत्वात्यन्ताभावप्रतियोगिकत्वरहिता इत्यर्थः । एतावता अनित्यत्वात्यन्ताभावाप्रतियोगिकेति पदमनुमानस्थं व्याकृतम् । शेषं सुगमम् । अथ अत्यन्ताभावं विमुच्य व्यावृत्तिं करोति - एतन्निष्ठा नित्यत्वात्यन्ताभावेत्यादि । अनित्यत्वात्यन्ताभावप्रतियोगि केनेति । अनित्यत्वात्यन्ताभावो नित्यत्वं प्रतियोगी यस्य तेन । अनित्यत्वात्यन्ताभावो नित्यत्वं, तस्य अन्योन्याभावेन शब्दो नित्यत्वं न भवतीतिरूपेण शब्दनिष्ठेन सिषाधयिषितानित्यत्वविपर्ययेऽप्युपपद्यमानेन अर्थान्तरता स्यात्, तत्प For Private And Personal Use Only

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247