Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महाविद्याविवरणम् । तते इति नानाविपक्षवृत्तिः । तस्मादन्यः नानाविपक्षवृत्त्यन्यः । अनेकविपक्षावृत्तिरित्यर्थः । भिन्नस्य धर्मो भिन्नधर्मः । नानाविपक्षवृत्त्यन्यश्चासौ भिन्नधर्मश्चेति नानाविपक्षवृत्त्यन्यभिन्नधर्मः । सः पक्षिते पक्षीकृते वास्तवे वा पक्षेऽस्ति साध्यते इत्यर्थः । भिन्न धर्म इति । भिन्नस्य धर्मत्वं पक्षापेक्षया बोद्धव्यम् । पक्षाच्छब्दाद्भिन्नस्येत्यर्थः, न तु भिन्नश्चासौ धर्मश्चेति भिन्नधर्मः । एतदेवापि साध्यपर्यवसानाय भिन्नस्य धर्मः इति ।
(अथ तृतीयानुमानम् ।) ( भुवन० )-अथ पक्षमेव पक्षीकृत्य प्रवर्त्तमानमहाविद्यावाच्यकारिकां व्याचिख्यासुराहअपक्षेतीति।
___“ अपक्षसाध्यवद्वृत्तिविपक्षान्वयवर्जितः ।
___ नानाविपक्षवृत्त्यन्यभिन्नधर्मोऽस्ति पक्षिते " ॥३॥ पूर्वस्मादित्यादि । पूर्वस्मादनुमानादस्य अयमेव भेदो यदन्न वास्तवः सत्यः एव शब्दः पक्षो • न आकाशात्मादिः । पुनरप्यनेकविपक्षव्यावृत्तिश्चेत्यादि । पुनरपि पूर्वस्मादनुमानादयं विशेषो यदनेकविपक्षव्यावृत्तिश्च । पूर्वस्मिन्ननुमाने तु पक्षितस्यैवैकस्य विपक्षस्य व्यावृत्तिरिति । नानाविपक्षवृत्त्यन्यः इति । नानाविपक्षेषु न वर्तते एकस्मॅिस्तु वर्तते एव । भिन्नधर्मः इति । पक्षापेक्षया अपरो यो भिन्नः पदार्थः तस्य धर्मः । एतदेवेति । भिन्नस्य धर्मः इति एतदेव साध्यपर्यवसानाय अनित्यत्वरूपसाध्यसिद्धयै भवति इत्यर्थः । अस्यां कारिकायामथवेति वक्तव्ये महाविद्याकर्तुरपक्षेति पदं प्रमादात्पतितम् । “ अथवा साध्यवद्वृत्तिविपक्षान्वयवर्जितः" इति तु पाठो युक्तः । ___इदानीमनुमानश्लोकपदयोजना-अत्र अपक्षसाध्यवद्धृत्तीति अशब्दानित्येत्यनेन व्याख्यातम् । विपक्षान्वयवर्जितः इति नित्यवृत्त्यन्येत्यनेन । नानाविपक्षवृत्त्यन्येति नानानित्यावृत्तिरित्यनेन व्याख्यातम् । भिन्नस्य धर्मः इत्यशब्दधर्मवानित्यनेन । इति योजना॥
(भुवन०)-अथानुमानम्-शब्द: अशब्दानित्यनित्यवृत्त्यन्यनानानित्यावृत्त्यशब्दधर्मवान् मेयत्वात् घटादिवत् । अपक्षसाध्यवदृत्तीति । अत्रानुमाने अशब्देति यदुक्तं तद्व्यर्थमपि कारिकायां अपक्षेति भणनादुक्तम् । अयं भावः । पूर्वत्र अपक्षेतिकारिकायामुक्तं तदपेक्षया अनुमाने शब्देतरेत्युक्तम् । तत्र च साध्यो धर्मों विपक्षस्य पक्षीकृतत्वात् शब्दात्मान्योन्याभावादिः । स च शब्देतरेत्युक्तं यदि न स्यात्, तदा नित्ये आत्मनि अनित्ये च शब्दे तस्य धर्मस्य वर्तनात् वाद्यभिप्रायेण अनित्यनित्यवृत्तित्वानधिकरणत्वं न स्यात् । तेन शब्देतरेति भणितम् । अस्मिंश्चानुमाने साथ्यो धर्मो वास्तवस्यैव पक्षस्य पक्षीकृतत्वादनित्यत्वादिः । स चानित्ये एव वर्तते न नित्ये । तस्मादत्राशब्देति पदं व्यर्थम् ।
१ एतदेव साध्य इति घ पुस्तकपाठः । २२ महाविद्या.
For Private And Personal Use Only
Loading... Page Navigation 1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247