Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८
भुवनसुन्दरसूरिकृतटिप्पनसमेतं न्योन्याभावोऽपि संभवति । आकाशे त्वेवंभूतो धर्मस्तदा स्याद्यदि शब्दस्यानित्यत्वं स्यात् । स च शब्दाकाशान्योन्याभावः एव । इति द्वितीयोदाहरणम् ॥
(भुवन०)-आकाशोऽनित्यत्तिधर्मवानिति कृते सत्तयेति । सत्तारूपस्य धर्मस्यानित्ये आकाशेऽपि च विद्यमानत्वात्सिद्धसाधनं स्यादित्यर्थः । तदर्थ शब्देतरेति । सत्तायाः शब्देऽपि विद्यमानत्वात्तनिषेधः । तथापि घटाकाशसंबन्धः इत्यादि । घटस्याकाशेन संबन्धः घटाकाशसंबन्धः । तस्य च शब्देतरानित्यघटे आकाशे च विद्यमानत्वात्तेन सिद्धसाधनं स्यादित्यर्थः । तयावृत्त्यर्थमनित्यत्तित्वानधिकरणेति पदोपादानम् । तथाप्याकाशपरमाणुसंयोगः इत्यादि। अत्रायं भावः । आकाश: शब्देतरानित्यवृत्तित्वानधिकरणधर्मवान् इति कृतेऽप्याकाशपरमाणुसंयोगेन सिद्धसाध्यतैव । आकाशश्च परमाणुश्च आकाशपरमाणू, तयोः संयोगः आकाशपरमाणुसंयोगः । स च नित्यवृत्तिरेव । तस्मात्तेन सिद्धसाधनता । तथाप्येवंविधधर्मस्येत्यादि । अयमर्थः-आकाश: शब्देतरानित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मवानिति कृतेऽप्रसिद्धविशेषणः पक्षः । अन्यत्र दृष्टान्ते एवंविधस्य धर्मस्य अप्रसिद्धत्वात् । कथमप्रसिद्धविशेषणतेत्याशङ्कयाह-नहि अनित्ये वतेते इत्यादि। स्पष्टम् । तथा च सपक्षाभावेन अन्वयित्वमेव व्याहन्यते इत्यादि। अन्वयित्वं केवलान्वयित्वं तस्यैव धर्मस्य स्यात्, यो दृष्टान्ते सिद्धः स्यात् । अत्र चैवंविधस्य धर्मस्य दृष्टान्ते अभावेन अन्वयित्वं व्याहन्यते इत्यर्थः । आकाशशब्देतरानित्यमेलके इत्यादि । आकाशे न वर्तते, शब्देतरानित्ये च वर्तते । तेन एवंविधो धर्मो युगलावृत्तिरनित्यवृत्तिश्च दृष्टान्ते घटादौ घटात्मव्यतिरिक्तविश्वप्रतियोगिकघटात्मान्योन्याभावादिः घटत्वादि संभवति । आकाशे त्वेवंभूतो धर्मस्तदा स्यादित्यादि। पक्षीकृते आकाशे एवंविधो महाविद्यासाध्यविचारणायातो धर्मस्तदैव स्याद्यदि शब्दस्यानित्वं स्यात् । इदमत्रैदंपर्यम्-एवंविधो धर्मः शब्दाकाशान्योन्याभावः शब्दाकाशव्यतिरिक्तविश्वप्रतियोगिकः, शब्दाकाशौ शब्दाकाशव्यतिरिक्तविश्वादन्यौ इति रूपः अवशिष्यते । तस्य च अनित्यवृत्तित्वं तदैव स्यात्, यदि शब्दोऽनित्यः स्यात् । आकाशस्य च नित्यत्वं वादिप्रतिवादिनोरविवादास्पदीभूतम् । तस्माच्छब्दस्यैव विप्रतिपन्नमनित्यत्वं पारिशेष्यात्सिध्यतीति द्वितीयानुमानव्याख्या ॥
(अथ तृतीयानुमानम् ) अथ पुनरप्यपेक्षितशब्दानित्यत्वसिद्धये भङ्गयन्तरमाचक्षाणः संग्राहिकां कारिकामाह
३ अपक्षसाध्यवद्धृत्तिविपक्षान्वयवर्जितः।
नानाविपक्षवृत्त्यन्यभिन्नधर्मोऽस्ति पक्षिते ॥३॥ शब्दः अशब्दानित्यनित्यवृत्त्यन्यनानानित्यावृत्त्यशब्दधर्मवान् ।
पूर्वस्मादस्य अयमेव भेदो यत्र वास्तवः एव पक्षो न विपक्षादिः । पुरनप्यनेकविपक्षव्यावृत्तिश्चेति । अत एव पूर्वार्ध गतार्थमेवेति न व्याख्यातम् । उत्तरार्धस्य त्वयमर्थः । नानाविधा येऽस्य विपक्षाः ते नानाविपक्षाः, तत्र प्रव.
For Private And Personal Use Only
Loading... Page Navigation 1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247