Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प० ३
महाविद्याविडम्बनम् ।
हेतु: । घटात्मादयो हि स्वान्योन्याभावान्यः प्राक्प्रध्वंसत्वरहितश्चाभावः पक्षनिष्ठान्योन्याभावः, प्रतियोगित्वधर्मादन्येऽपि भवन्ति तद्धर्मवन्तश्चेति तेषां सपक्षता । व्यावृत्त्यानि स्पष्टानि । अनेनानुमानेन महाविद्या साध्यस्य अत्यन्ताभावप्रतियोगित्वं प्रादशति साध्यप्रसिद्धिः । एवंविधार्थान्तरतेति । ये तु महाविद्यासाध्यस्य नित्यत्वात्प्राक्प्रध्वंसाभावौ न मन्यन्ते तेषामेवंविधार्थान्तरता न स्यादिति तान्प्रति तत्प्राक्प्रध्वंसाभाववत्त्वरहितेति विशेषणं नोपादेयमेवेत्यर्थः । एवमिति । त्वत्साध्यं अत्यन्ताभावप्रतियोगित्वव्यतिरिक्तैतन्निष्ठत्वरहिताधिकरणं अत्यन्ताभावप्रतियोगित्वव्यतिरिक्तैतन्निष्ठत्वरहितान्यत्वात्, घटवत् । अत्यन्ताभावप्रतियोगित्वव्यतिरिक्ताः ये एतस्मिन्पक्षीकृते त्वत्साध्ये निष्टाः धर्मास्त्वत्साध्यत्वादयः, तत्त्वेन रहितो धर्मोऽनेतन्निष्ठो वा अत्यन्ताभावप्रतियोगित्वं ar | आद्य: पक्षे व्याहतः, सपक्षे च प्रयोजक: । द्वितीयस्तु पक्षे सिध्यन्नत्यन्ताभावप्रतियोगी पक्ष इति साधयतीत्यादिभिरनुमानान्तरैरिति भावः । उक्ते मूलपदमवतार्य व्याचाख्यायते— तदिदमुक्तमित्यादि । उत्पत्तिविनाशरहितः प्राक्प्रध्वंसाभाववत्त्वरहितः । तदन्यत्वमिति । तदन्यत्वं तस्मात्साध्यादन्यत्वमिति हेतुः ।
या प्रकृतसाध्यसाधकानुमानसाध्यं पक्षीकृतशब्दनिष्ठत्वेन विशेष्य तेनैव सत्प्रतिपक्षत्वं सर्वमहाविद्यानामुद्भावनीयम् । प्रयोगस्तु-पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं स्वान्योन्याभावव्यतिरिक्तप्राक्प्रध्वंसाभावत्वरहितपक्षीकृत शब्दनिष्ठाभावप्रतियोगित्वाश्रयः स्वान्योन्याभावव्यतिरिक्तप्राक्प्रध्वंसाभावत्वरहितपक्षीकृतशब्दनिष्ठा भावप्रतियोगित्वान्यत्वात्
११७
घटवत् इत्यादि ।
( भुवन ० ) - धर्मी चेत्यत्र चकारसूचितमर्थमाचष्टे - यद्वेति । प्रकृतं साध्यं सत्प्रतिपक्षानुमानसाध्यं, तस्य साधकमनुमानं साध्यप्रसिद्धिकर्तृ, तस्य साध्यं स्वान्योन्याभावान्येत्यादिकं, पक्षीकृत शब्दनिष्ठत्वेन विशेष्य । अयमर्थः - पूर्वमनुमानद्वयेन कृत्वा महाविद्यासाध्यस्यैतच्छब्देऽत्यन्ताभावः प्रत्यपादि । अत्र चैकेनैव अनुमानेन महाविद्यासाध्यस्य अत्यन्ताभावः एतच्छब्दे प्रतिपाद्यते । तथा च साध्यप्रसिद्धिकर्तृद्वितीयानुमानमपि न विलोक्यत इति तेनैव प्रकृतसाध्यसाधकानुमानेनैव सत्प्रतिपक्षणीयमिति । प्रयोगेणैतदेव विशदयति- पक्षीकृतेति । पक्षीकृतशब्दनिष्ठश्वासौ अभाव | शेषं पूर्ववत् ।
For Private And Personal Use Only
शिवादित्यमिश्रास्तु पूर्वोक्तन्यायेन साध्याभावप्रसिद्धिं कृत्वा, अयं
शब्दः एतन्महाविद्या साध्यात्यन्ताभावव्यतिरिक्तस्वनिष्ठत्वरहिताधिकरणं, मेयत्वात् घटवत् इति सत्प्रतिपक्षयन्ति । तन्न । हेतुभेदाभावेन अस्यापि विरोधे एवान्तर्भावात् । तस्मादयं शब्दः एतन्महाविद्यासाध्यात्यन्ताभावव्यतिरिक्तस्वनिष्ठत्वरहिताधिकरणं, तथा स्वस्वेतरवृत्तित्वरहितानित्यत्वात्यन्ताभाववन्निष्ठाधिकरणं, अभिधेयत्वादित्यादिना सत्प्रतिपक्षणीयम् ।
Loading... Page Navigation 1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247