Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library

View full book text
Previous | Next

Page 178
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०३ महाविद्याविडम्बनम् । पार्थिवपरमाणोः रूपरसगन्धस्पर्शाश्वानित्याः, वायवीयपरमाणुषु स्पर्शों नित्योऽपाकजश्च, रूपरसगन्धास्तु तत्र सन्त्येव न । आप्यपरमाणोः रूपरसस्पर्शाः नित्याः, गन्धस्तु तत्र नास्त्येव । तैजसपरमाणो: रूपस्पशौँ नित्यौ, रसगन्धौ तु न स्तः । तथा तैजसाप्यपरमाणुषु रूपाद्यपाकजम् । पार्थिवपरमाणुषु रूपादिपाकजम् । ईश्वरज्ञानेच्छाप्रयत्ना नित्याः । धर्माधर्मादयस्तु तत्र न सन्तीति सिद्धान्तमर्यादाभङ्गाभावात्कथं विप्लावकत्वमित्यत आह-तथा हीत्यादि । गगनादयः पक्षः । आदिपदेन आत्मपरमाण्वादिसंग्रहः । अनुमानव्याख्या पूर्ववत् । गगनादीनां सिद्धान्ते नित्यत्वं प्रत्यपादि, महाविद्यया चाऽनित्यत्वमपि साध्यते इति सिद्धान्तविप्लवः । पार्थिवेत्यादि । नित्यं च तद्रूपादि च नित्यरूपादि । आदिशब्देन रसगन्धस्पर्शपरामर्शः । नित्यरूपादयो विद्यन्ते येषु ते नित्यरूपादिमन्तः, तनिष्ठो धर्मः पार्थिवपरमाणुत्वादिः पक्षे सिध्यन्पक्षितपार्थिवपरमाणूनां नित्यरूपादिमत्त्वं साधयेदिति भावः । सपक्षे अनित्यरूपादिमानाप्यादिपरमाणुस्तन्निष्ठेन पक्षान्योन्याभावेन पक्षान्यसर्वनिष्ठेन साध्याधिगमः । वैशेषिकादिमते पार्थिवाणूनामनित्यरूपादिमत्त्वं प्रतिपाद्यते, अत्र तु विपरीतसाधनाद्विप्लावकत्वम् । आप्यादीति । आदिपदात्तेजोऽणूनां ग्रहणम् , न तु वायवीयाणूनाम् । तेषां केवलस्पर्शवत्त्वेन रूपादिमत्त्वाभावात् । पाकजं च तद्रूपादि च तद्वत्सु निष्ठो यो धर्मः, तदाश्रय इत्यर्थः । आदिशब्दाद्रसस्पर्शपरामृष्टिः । अत्र आप्यादिपरमाणुत्वं साध्यधर्मः पाकजरूपादिमनिष्ठः पक्षे सिध्यन्पाकजरूपादिमत्त्वमाप्याद्यणूनां साधयति । पक्षान्यत्वं धर्मः सपक्षे ज्ञातव्यः। स च पाकजरूपादिमान्पार्थिवाणुस्तनिष्ठोऽस्त्येवेति साध्यप्रसिद्धिः । पार्थिवाणवो हि सूर्यादितेजसा ज्वलितत्वात्पाकजरूपादिमन्तः उच्यन्ते । आप्याद्यणवस्तु अज्वलितत्वादपाकजरूपादिमन्तः इति सिद्धान्तस्थितिः । अत्र च तद्वैपरीत्यकरणास्थितिभङ्गः । ईश्वर इति । ईश्वरो हि नित्यज्ञानादिमान्धर्माधर्मादिरहितश्च संप्रतिपन्नः,अत्र चान्यथापि साधनाद्विप्लवः । ज्ञानं चेच्छा च प्रयत्नश्च धर्मश्च अधर्मश्च सुखं च दुःखं च द्वेषश्च भावना च, अनित्याश्च ते ज्ञानादयश्चेति विग्रहः । इहेश्वरत्वं धर्मः उभयविशेषणविशिष्टः पक्षे सिध्यन्पक्षस्येश्वरस्य अनित्यज्ञानादिमत्त्वं साधयेत् । पक्षान्योन्याभावमनित्यज्ञानादिवति क्षेत्रज्ञात्मनि निष्ठमादाय साध्यानुगमः । इत्यादेरिति । अत्रादिपदेन ' श्रुतिः स्वस्वेतरवृत्तित्वरहिताप्रमाणनिष्ठाश्रयो ज्ञेयत्वाद्धटात्मादिवत् । तथा 'ईश्वरः स्वस्वेतरवृत्तित्वरहितजगत्कर्तृत्वरहितनिष्ठाश्रयो मेयत्वाद्घटादिवदित्यादीनां ग्रहणम् । न चैवमिति । एवमादीनां गगनाद्यनित्यत्वादिसाधकानुमानानामित्यर्थः । कुतो नेत्याह-विवादेत्यादि । अत्र विप्रतिपन्नागमत्वं पक्षे साध्यधर्मः । सपक्षे च पक्षान्यत्वं धर्मः । स चाप्रमाणे प्रत्यक्षादिप्रमाणादन्यस्मिनिष्ठः एवेत्यर्थः । शेषमनुमानमुत्तानार्थम् । तत्प्रामाण्येति । तस्य विवादपदागमस्य यत्प्रामाण्यं तत्प्रतिक्षेपेऽपीति भावः । ___ अथ सिद्धान्तविप्लावकत्वं कुत्रान्तर्भवतीति पृच्छसि, तर्हि न कचिदित्यवेहि । यथा सिद्धत्वादयः पृथगेव दूषणं, एवमिद्मपि । यद्वा प्रतिबन्धामस्या १ सपक्षे च नित्य इति च पुस्तकपाठः । २ 'ध्याधिगतिः । वैशे इति च पुस्तकपाठः । ३ हि प्रलयकाले ज्वलि इति च पुस्तकपाठः । ३ था अप्रसिद्ध इति ग पुस्तकपाठः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247