Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library

View full book text
Previous | Next

Page 186
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प०३ महाविद्याविडम्बनम् । व्याप्यत्वम् । स्वस्वेतरेत्यादिसाध्यवति गगनादावनित्यत्वस्याभावेन यत्रोक्तसाध्यं तत्रानित्यत्वमिति व्याप्तेरभावादित्यर्थः । अनित्यत्वरहिते गगनात्मादौ कथितसाध्यसद्भावेन विशेषस्य विशेषणाव्यातत्वान्नापि तृतीयः इत्याह-नो सामान्यविशेषतेति । सामान्यविशेषतायां हि सामान्यस्य विशेध्यत्वं, विशेषस्य च विशेषणत्वं स्यादिति । अत्र च महाविद्यासाध्याऽनित्यत्वयोर्न विशेष्यविशेषणभावोऽस्ति । गगनादौ महाविद्यासाध्यरूपविशेष्यसद्भावेऽपि अनित्यत्वरूपविशेषणाभावेन यत्र विशेष्यं तत्र विशेषणमिति व्याप्तेरभावात् । तस्मात् नो सामान्यविशेषतापीत्यर्थः । महाविद्यासाध्यापर्यवसानस्य दुर्निरूपत्वेन ततः उक्तप्रकारादनित्यत्वस्य बोधे प्रकारान्तरं च नास्ति । समास्कन्दतीति । स्कन्दूधातोरुभयार्थत्वात्समागच्छति शोषयति वेति ॥२०॥ सिध्यतु वा मेयत्वादेः पक्षीकृतशब्दे पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वम् ।अनित्यत्वसिद्धिस्तु कुतः। न हि प्रकृतसाध्यमेवानित्यत्वम् । ततोऽपि गगनादेावृत्तत्वात् । नापि तस्य व्यापकम् । तत एव । नच पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वव्यापकव्याप्यत्वेनाभिमतस्य मेयत्वादेः तत्त्वव्यापकाभ्यामन्येन व्याप्तिर्भवता शक्याऽभ्युपगन्तुम् । न च अव्यापकमपि अनित्यत्वं पक्षधर्मताबलायापकधर्मिसंसर्गवत्सेस्यतीति युक्तम् । हेतोः पक्षधर्मतया व्यापकपक्षसंबन्धमात्रचरितार्थत्वात् । (भुवन०)-पद्यं व्याख्यानयति-सिध्यतु वेत्यादि । मेयत्वादिहेतुतः पक्षितशब्दे महाविद्यासाध्यं सिध्यतु, अनित्यत्वं तु कुतः सिध्यतीति तत्त्वम् । एतदेव द्रढयति-नहीति । प्रकृतसाध्य महाविद्यासाध्यमेवानित्यत्वमिति तत्त्वार्थः । हेतुमाह-तद्वतोऽपीति । प्रकृतसाध्यवतो गगनादेः सकाशादनित्यत्वस्य व्यावृत्तत्वात् । नापि तस्येति । तस्य प्रकृतसाध्यस्य व्याप्यरूपस्य नाप्यनित्यत्वं व्यापकम् । तत एव, प्रकृतसाध्यवतोऽपि गगनादेरनित्यत्वस्य व्यावृत्तत्वादेवेति । इदं तत्त्वम् । यत्र व्याप्यं तत्र व्यापकेन भाव्यमिति हि नियमः । अत्र च प्रकृतसाध्यरूपव्याप्यं गगनादौ अस्ति, न तु अनित्यत्वरूपव्यापकम् । तस्मादनित्यत्वस्य महाविद्यासाध्यव्यापकत्वं न घटामटाट्यते इति । ननु मेयत्वहेतुरेव व्याप्तिबलात्स्वव्यापकमनित्यत्वं किं न गमयेदित्याशङ्कामपाकुरुते-न चेति । पक्षीकृतेत्यादिकं यध्यापकं महाविद्यासाध्यं तव्याप्यत्वेनाभिमतस्य मेयत्वादिहेतोः, तत्त्वं मेयत्वं, व्यापकं महाविद्यासाध्यं, ताभ्यामन्येनानित्यत्वादिना न व्याप्तिः शक्या स्वीकर्तुम् । एतत्तात्पर्यम्मेयत्वमहाविद्यासाध्ययोाप्यव्यापकभावोऽस्तु । तयोरन्येनानित्यत्वादिना मेयत्वादेर्व्याप्तिर्न स्यादिति । न च अव्यापकमिति । हेतोः पक्षधर्मताबलात् अव्यापकस्य महाविद्यासाध्यस्य धर्मिणा शब्दादिना सह यथा संसर्गः सिध्यति, तथा हेतोः पक्षधर्मताबलादेव अनित्यत्वं मेयत्वस्य अव्यापकमपि सेत्स्यतीति न च युक्तमित्यर्थः । कुतो न युक्तमत्राह-हेतोरिति । हेतोर्मेयत्वादेः पक्षधर्मतया व्यापकं प्रकृतसाध्यं, पक्षः शब्दादिस्तयोः सम्बन्धमात्रत्वेन चरितार्थत्वात् । अयं भावः । मेयत्वादिः पक्षधर्मताबलाच्छब्दमहाविद्यासाध्यसम्बन्धकरणेनैव चरितार्थः इत्यव्यापकमनित्यत्वं न साधयतीति । १ हेतुं प्राह" इति च पुस्तकपाठः । २ मात्रे चरि' इति च पुस्तकपाठः । १८ महाविया. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247