Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
भुवनसुन्दरसूरिकृतटीकायुतं (भुवन०)-भङ्गान्तरं भणितुं प्रस्तावयति-किञ्च व्याघातेति । यदि शब्दानित्यत्वं नाभ्युपेयते, तर्हि पक्षे पक्षेतरत्वधर्मसिद्धया व्याघातः स्यादिति व्याघातबलादियं महाविद्यानुमितिः पक्षीकृतशब्दस्यानित्यत्वे विश्राम्यतीति भावः । ननु व्याघातः कः, अत्राह-व्याघात इति । द्वयोर्विरोधप्रतीतिर्व्याघातः इत्यर्थः । सा चेति । सा च विरोधप्रतीतिविरुद्धयो यस्य या प्रमिति: तजन्येत्यक्षरयोजना । प्रकृते चेति । प्रकृते महाविद्यानुमानेऽनित्यत्वस्याभावो नित्यत्वं, पक्षीकृतशब्दमात्रवृत्तिरनित्यनिष्ठः पक्षीकृतशब्दानित्यत्वे शब्दत्वादिः, तौ द्वावपि विरोधिनौ । पूर्वकालीनोव्याघातः शब्दानित्यत्वसिद्धथुपयोगी किंवा उत्तरकालीनः इति गूढाभिप्रायेण द्वैधं विकल्प्य प्राचीनं प्रति आह-न चेत्यादि । पक्षीकृतशब्दमात्रवृत्त्यनित्यनिष्ठो धर्मः शब्दानित्यत्वे सति शब्दत्वादिः प्रकृतानुमितेर्महाविद्यानुमानात्पूर्व न च प्रमाणेन गृहीतः । तद्धर्मस्य पूर्व प्रतीतौ महाविद्यानुमानवैयर्थ्यात् । एतावतानुमितेः पुरा विरुद्धप्रमितेरभावात्पूर्वकालीनव्याघातासम्भवेन पौरस्त्यः पक्षोऽपास्तो भवति । उदीचीनं कल्पमपास्यते-अनुमितीति । अनुमानकरणादुत्तरकाले विरुद्धप्रतीतिश्चेव्याघातः, तदा स निरर्थकः एवेत्यर्थः । हेतुना पूर्वोक्तं द्रढयति-व्याघातेति । अनित्यत्वं विनापि व्याघाताभावेन हेतुना अनुमितेः पूर्वमेव पर्यवसितत्वादिति पदान्वयः । तात्पर्यार्थस्त्वयम्व्याघातबलात् हि अनित्यत्वमिति भवानवादीत् । अत्र चानुमानावसरे व्याघाताभावेन शब्दस्यानित्यत्वं विनाप्यनुमितिः पर्याप्तेत्युत्तरकालजातो व्याघातो व्यर्थः एवेति ।
किञ्च, किं व्याघाते एकपरिहारेण द्वितीयस्योपलम्भो बीजं, किंवा उभयोः परस्परपरिहारेणोपलम्भः, किंवा उभयोनियमेन परस्परपरिहारेणोपलम्भः । आये घटत्वमेयत्वादेर्व्याघातापत्तिः । द्वितीये घटत्वशुक्लत्वादेाघातापत्तिः वक्ष्यमाणदोषश्च । तृतीयस्तु प्रकृते न संभवत्येव । अनित्यत्वाभावस्य पक्षीकृतशब्दमात्रवृत्त्यनित्यनिष्ठधर्ममन्तरेणोपलम्भेऽपि अनित्यत्वाभावमन्तरेण पक्षीकृतशब्दमात्रनिष्ठानित्यनिष्ठधर्मस्यानुपलम्भात् । उभयोः परस्परपरिहारेणोपलम्भेऽपि परस्परपरिहारनियमस्य निष्प्रमाणत्वाञ्चेति ।
(भुवन०)-अथ व्याघातमेव त्रिः पक्षयित्वा प्रतिक्षिपति-किञ्च किमित्यादि। एकमन्तरेणापि द्वितीयस्योपलम्भो व्याघाते बीजं कारणमिति परमार्थः । प्राचिकं पक्षं परास्यतेआये इति । यद्यपि घटत्वे मेयत्वमस्ति, तथापि मेयत्वे घटत्वाभावाद्धटत्वपरिहारेण मेयत्वस्य पटादावुपलम्भोऽस्ति । ततः एकपरिहारेण द्वितीयोपलब्धौ चेव्याघातः, तदात्रापि व्याघातः प्रसज्येत । नास्ति व्याघातो, घटत्वे मेयत्वसद्भावादित्यादिमः पक्षी न क्षोदक्षमः । पुरःसरपक्षं क्षिपतिद्वितीये इति । रक्ते घटे घटत्वं शुक्लस्वं विनाप्युपलब्धम् , पटादौ च शुक्लत्वं घटत्वमन्तरेणाप्युपलब्धमिति परस्परपरिहारोपलम्भादेकस्मिन् शुक्ले घटे घटत्वशुक्लत्वसंसर्गस्य व्याघाताभावेऽपिव्याघातः आपघेतेत्यर्थः । वक्ष्यमाणेति । परस्परपरिहारोपलम्भस्य व्याघातबीजत्वे निष्प्रमाणकत्वं नाम तृतीयपक्षस्य वक्ष्यमाणदोषश्च स्यादित्यत्र घेटना । तार्तीयीकमसम्भवेन निराकरोति-तृतीयः इति ।
१ पक्षमात्रवृत्त्यानित्यनिष्ठों इति च पुस्तकपाठः । २ "संसर्गव्याघा इति छ द पुस्तकपाठः
For Private And Personal Use Only
Loading... Page Navigation 1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247