Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library

View full book text
Previous | Next

Page 120
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प०१ महाविद्याविडम्बनम् । णम् । शब्दत्वव्यतिरिक्तत्वे सति यदनित्यत्वात्यन्ताभावव्यतिरिक्तत्वं तद्रहितश्च शब्दत्वं वा स्यात्, अनित्यत्वात्यन्ताभावो वा । आद्योऽन्यत्वं न सिध्यति । न हि शब्दत्वं शब्दत्वादन्यदिति संभवति । तेन शब्दनिष्ठत्वरहितानित्यत्वात्यन्ताभावान्यत्वं पक्षे सिध्यति इत्यनित्यत्वात्यन्ताभावविरहरूपानित्यत्वसिद्धिः शब्दे ॥ १ ॥ (आनं० )-तथापि कथं साव्यपर्यवेसानमत्राह-स च पक्षनिष्ठत्वरहित इति । घटत्वव्यतिरिक्तत्वे सति शब्देतरानित्यनिष्ठत्वरहितश्चानित्यनिष्ठश्व, ततोऽन्यदित्यर्थः । घटत्वमन्यदित्युक्ते सुखादेरन्यदिति सिद्धसाधनमत उक्तम्-अनित्यनिष्ठान्यदिति । एवमपि घटत्वादिशब्देनार्थान्तरमत उक्तम्-शब्देतरानित्यनिष्ठत्वरहितति । शब्देतरानित्यनिष्ठत्वरहितानित्यनिष्ठान्यदित्यक्तेऽप्रसिद्धविशेषगत्वं, शब्दानित्यत्वसिद्धेः प्रागेवं रूपसाध्यासिद्धरत आहे x x x (भुवन०)-अथाद्यविशेषणविशिष्टं धर्मद्वयं स्यात् । तदेवाह-शब्दत्वं वा स्यात् , एतच्छब्दनिष्ठत्वरहितो वेति । आयोऽन्यत्वमिति । शब्दत्वं च यथोक्तविशेषणविशिष्टमप्युपपद्यते. परं तत्पक्षे व्याहतम् । तस्यैव शब्दत्वस्य, तस्मादेव शब्दत्वादन्यत्वासम्भवात् । भिन्नयोरेव द्वयोरन्यत्वसम्भवात् । तेन द्वितीयान्यत्वं सिद्धयति । तथापि कथं प्रकृतसाध्यपर्यवसानमत्राह–स च पक्षनिष्ठत्वरहित इति । मूलानुमानापेक्षया पक्षोऽत्र शब्दो ग्राह्यः । पक्षनिष्ठत्वरहितमपि द्वेधा विकल्पयति-अनित्यत्वात्यन्ताभावेत्यादि । अनित्यत्वात्यन्ताभावो नित्यत्वम् । तद्व्यतिरिक्तो हि धर्मो नित्यत्वं विना घटत्वपटत्वगगनत्वादिकः सर्वोऽपि । द्वितीयविकल्पमाह-अनित्यत्वात्यन्ताभावो वेति । नित्यत्वं वेत्यर्थः । तत्राद्यस्य निरासाय द्वितीयविशेषणसाफल्यमाह-आद्यव्यावृत्यर्थमित्यादि । तथा च द्वितीयविशेषणेन घटत्वाकाशत्वादिसर्वधर्माणां निषिद्धत्वेन अवशिष्टं धर्मद्वयमेव स्यात् । तदेव चाह-शब्दत्वमिति । शब्दत्वं वा अनित्यत्वात्यन्ताभावो नित्यत्वं वा । आद्यान्यत्वसिद्धौ असंभवं ब्रूते-न हि शब्दत्वमित्यादि । पक्षे द्वितीयान्यत्वसिद्धौ एतच्छब्दानित्यत्वसिद्धिमाह तेन शब्दनिष्ठत्वेत्यादि । शब्दनिष्ठत्वरहितो योऽनित्यत्वात्यन्ताभावो नित्यत्वं, तस्मादन्यत्वं पक्षे शब्दत्वे सिध्यति । अयमाशयः-यद्यपि पक्षिते शब्दत्वे नित्यत्वान्यत्वे साध्यमाने सिद्धसाधनता स्यात् , तथापि शब्दनिष्ठत्वरहितं यन्नित्यत्वं तस्मादन्यत्वं शब्दत्वस्य तदैव स्यात्, यद्यनित्यः शब्दः स्यादित्येतच्छब्दानित्यत्वसिद्धिः । अत्र च शब्दत्वान्यत्वधर्ममुपादाय घटपटाकाशादौ तद्धर्मेषु घटत्वादिषु साध्यप्रसिद्धिर्दष्टच्या । एवं शब्देऽपि साध्यप्रसिद्धिज्ञेया । यतो धर्मधर्मिणोवैशेषिकादिमते भिन्नत्वेन शब्दत्वान्यत्वधर्मः शब्देऽपि सिद्ध एवेति परमार्थः ॥ १॥ इति पक्षनिष्ठधर्मपश्नीकरणप्रवृत्ता महाविद्या न्यदर्शि । अथ सपक्षनिष्ठं धर्म पक्षीकृत्य प्रवर्तमाना महाविद्याभेदा यथा१ आयेऽन्यत्वं इति ज पुस्तकपाठः । २ शब्दान्य इति ग पुस्तकपाठः । ३ आदर्श पुस्तके त्रुटितोऽयमंशः। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247