Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महाविद्या विवरणम् ।
एवंविधं शब्देतरानित्यनित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मघानित्यादिरूपं महाविद्यासाध्यं शब्दस्यानित्यतां विना पक्षीकृते आत्मनि न संभवति । तस्माच्छब्दोऽनित्यः स्वीकार्यः इत्येवंविधपारिशेष्याच्छब्दस्यानित्यत्वरूपसाध्यसिद्धिः स्यादिति । परिशेषलक्षणं च “ प्रसक्तप्रतिषेधेऽन्यत्राप्रसाच्छिष्यमाणे संप्रत्ययः परिशेषः" इति ज्ञेयम् । एवं सर्वमहाविद्यानुमानेषु विवक्षितसाध्यसिद्धिर्विधेयेति पद्यार्थः । ___इह हि सर्वः कोऽपि ग्रन्थारम्भे अभीष्टदेवतानमस्कारपूर्व प्रवर्तते इति पूर्वपुरुषमार्गमनुस्मरन कुलार्कपण्डितनिर्मितमहाविद्यावृत्तिं चिकीर्षुर्वृत्तिकारः आदावभीष्टदेवतानमस्कारमाह-श्रुतिमयतनु केचित्केचिदानन्दरूपमित्यादि । तत्स्वरूपं परमात्मरूपं अहं नमामि । तत्कि। यदभिदधति । के कर्तारः । केचित् नित्यस्फोटवादिनो वैयाकरणाः। किंविशिष्टम् । श्रुतिमयेति । श्रुतयो वेदाः ता एव रूपं यस्याः तन्वाः सा श्रुतिमयी, तथाविधा तनुर्यस्य तत्तथा । केचिद्वेदान्तादिमतानुसारिणः आनन्दरूपं आनन्दः एव रूपं स्वरूपं यस्य तत्तथा । केचिन्नैयायिकादयो विगलिततनु अशरीरमित्यर्थः । तथा केचित्सांख्यादयः अच्छं निर्मलमित्यर्थः । पुनः किंविशिष्टं। जन्मेत्यादि। जन्म जननं, स्थितिः सावधिकमवस्थानं संसारदशायामवस्थानमित्यर्थः । लयो विपत्तिः । तैः कृतो यः परितापः, तस्य यः आरम्भः, तेन हीनम् । एतावता जन्मस्थितिविनाशरहितमिति यावत् । एवंविधं च ब्रम्हस्वरूपं योगिनामेव गम्यं, न त्वस्मदादीनामित्यर्थः । ग्रन्थान्तरेऽपि चैवमेव परमात्मस्वरूपं प्रत्यपादि । तथाहि
" नेन्दोः कला न गिरिजा न कपालशक्ति
नोंक्षा न भस्म न जटा न भुजङ्गहारः। यस्यास्ति नान्यदपि किञ्चिदुपास्महे त
द्रूपं पुराणमुनिशीलितमीश्वरस्य ॥" अन्यत्रापि । “ अपाणिपादो ह्यमनो ग्रहीता" इत्यादि । अपरत्र च “ निर्मलनिश्चलनिष्क्रियरूपमित्यादि । इतरत्र च-" न रूपं नो गन्धः" इत्यादि ॥ १॥
महाविद्यानिगूढार्थदर्शनी दीपिका मया।
क्रियते धीमतामन्तस्तमोविच्छित्तिहेतवे ॥२॥ (भुवन०)-महाविद्यावृत्तिरीदृशी मया आरभ्यमाणास्तीति वाच्यं श्लोकं वृत्तिकृदाहमहाविद्यानिगूढार्थेत्यादि । स्पष्टमेतत् ॥२॥
पदाक्षेपः पूर्व तदनु परिपाटीविघटनं
विपक्षव्यावृत्तिस्तद्नु तद्नु स्वार्थकथनम् । ततस्तेषां वृत्तिः प्रतिभटमुपक्रम्य विरले
स्थले कार्येत्येवं विवरणमिदं नः प्रभवति ॥ ३॥
१ पालभुक्तिः इति ध पुस्तकपाठः । २ दो जवनो ग्रं इति पाठः घेताचतरोपनिषदि। ३ दि । परत्र च” इति ध पुस्तकपाठः ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247