Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library

View full book text
Previous | Next

Page 172
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०३ महाविद्याविडम्बनम् । १२३ (भुवन०) हेत्वाभासपञ्चकं श्लोकेनोपपादयति-किश्चेति । मेयत्वादिकः पूर्वोक्तो महा. विद्याहेतुः स्वव्यभिचारमात्मनोऽनैकान्त्यमुल्ललयति अङ्करयति, प्रोन्मीलयति प्रकाशयति, स्थितिविप्लवमव्यवस्थामाधत्ते, स्वस्य प्रत्यर्थितां विरोधितां भजते ।। १७ ॥ श्लोकं व्याचष्टे-तथाहीत्यादि । अनुमिमीते-एतच्छब्देति । एतच्छब्देत्यादि स्वस्वे. तरेत्यादि वा महाविद्यासाध्यं पक्षः । स्वस्वेतरवृत्तित्वरहितश्चासौ मेयत्ववन्निष्ठात्यन्ताभावप्रतियोगिनिष्ठश्चेति विग्रहः । स्वस्मिन्पक्षीकृतमहाविद्यासाध्ये स्वस्मात्पक्षीकृतमहाविद्यासाध्यादितरस्मिंश्च युगलावृत्तित्वेन वृत्तित्वरहिती धर्मः स्वमात्रवृत्तिा, स्वेतरमात्रवृत्तिर्वा । तत्र द्वितीयः पक्षे व्याहतः । तस्मात्स्वमात्रवृत्तिरेतत्पक्षत्वादिधर्मः पक्षे सिध्यति । स च धर्मो मेयत्ववन्तो घटादिपदार्थाः, तन्निष्ठो योऽत्यन्ताभावः, तस्य यः प्रतियोगी, तस्मिन्निष्ठस्तदैव यदि पक्षीकृतमहाविद्यासाध्यं मेयत्ववन्निष्ठात्यन्ताभावप्रतियोगि स्यात् । तस्य धर्मस्य एतत्पक्षमात्रवृत्तित्वेनान्यत्रावर्तनात् । यदि च महाविद्यासाध्यं मेयत्ववन्निष्ठात्यन्ताभावप्रतियोगि जातं, तदानीं मेयत्ववति महाविद्यासाध्यस्य अत्यन्ताभावः सम्पन्नः एव । तथा च मेयत्वसाधनवति घटादिभावे महाविद्यासाध्याभावान्मेयत्वस्य अनैकान्त्यसिद्धिः । स्वेतरमात्रवृत्तिधर्मोऽत्र पक्षान्यत्वादिः सर्वत्र सपक्षे बोद्धव्यः । स च स्वेतरस्मिन्नेव बर्तनात्स्वस्वेतरवृत्तित्वरहितः, तथा मेयत्ववपक्षीकृतं महाविद्यासाध्यं तत्र निष्ठो योऽत्यन्ताभावस्तत्प्रतियोगिनि घटादौ निष्ठश्च सम्भवेदिति तेन व्याप्त्यनुगमः । अधिकरणमित्युक्ते स्वनिष्ठेन महाविद्यासाध्यत्वधर्मेण स्वस्य मेयत्ववनिष्ठात्यन्ताभावप्रतियोगित्वाभावेऽप्युपपद्यमानेनार्थान्तरं स्यात् । तन्निवृत्त्यर्थ मेयत्ववन्निष्ठात्यन्ताभावप्रतियोगिनिष्ठेत्युपात्तम् । तथोक्ते घटपक्षीकृतमहाविद्यासाध्यान्यतरत्वेन मेयत्ववत्पटादिनिष्ठात्यन्ताभावप्रतियोगिघटनिष्ठेनार्थान्तरम् । अत उक्तं स्वेतरवृत्तिवरहितेति । तथापि सपक्षे साध्याप्रसिद्धिः, तदुक्तं स्वेति । उक्त मूलपदमवतारयतितदिदमिति । उपाधिदोषं पोषयति-स्वस्वेतरेत्यादि । अयं शब्दः स्वस्वेतरेत्यादिमहाविद्यानुमाने पक्षीकृतो यः शब्दस्तदन्यत्वमुपाधिः । यत्र महाविद्यासाध्यं तत्रैतच्छब्दान्यत्वं, यथा घटास्मादाविति साध्यव्यापकत्वात, मेयत्वसाधनवति शब्दे एतच्छब्दान्यत्वस्याभावेन साधनाव्यापकत्वाच । पराशङ्कां पराकरोति-न च साध्येति । साध्यव्यापकत्वस्य अनिश्चयात्पक्षेतरत्वस्य एतच्छब्दान्यत्वस्यानुपाधित्वमिति भावः । हेतुमाह-पक्षीकृतेत्यादि । पक्षीकृतशब्देतरत्वरूपः उपाधिरेव पक्षः । स्वस्वेतरवृत्तित्वरहितश्चासौ प्रकृतसाध्यव्यापकनिष्ठश्चेति समासः । स्वस्मिन् पक्षीकृतशब्देतरत्वोपाधौ स्वस्मादेतदुपाधेरितरस्मिँश्च वृत्तित्वरहितः स्वमात्रवृत्तिा, स्वेतरमात्रवृत्तिर्वा । तत्र स्वेतरमात्रवृत्तिः पक्षान्यत्वादियद्यपि प्रकृतसाध्यव्यापके मेयत्वादौ निष्ठोऽस्ति, तथापि पक्षादन्यत्रैव वर्तनात्पक्षे व्याहतः, सपक्षे च सर्वत्र प्रयोजकः । तेन स्वमात्रवृत्तिरेतदुपाधित्वादिधर्मः पक्षे सिध्यति । स च धर्मः प्रकृतं साध्यं महाविद्यासत्कं स्वस्वेतरेत्यादिकं तस्य यो व्यापकस्तत्र निष्ठस्तदैव, यद्ययमुपाधिः प्रकृतसाध्यव्यापकः स्यादिति । परिशेषप्रमाणेनैतच्छब्दान्यत्वोपाधेः साध्यव्यापकत्वं सिद्धम् । व्यावृत्त्यकृत्यं स्पष्टम् । न च साध्येति । साध्यव्यापकत्वसाधनाव्यापकत्वरूपोपाधिलक्षणसद्भावेऽपि पक्षेतरत्वमेव दोषः । तथाहि-यत्रोपाधिना पक्षः एव व्यावय॑ते नेतरो विपक्षः, तत्र पक्षेतरत्वं, यथा धूमानुमाने प्रतिवादिना For Private And Personal Use Only

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247