Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library

View full book text
Previous | Next

Page 209
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६० भुवनसुन्दरसूरिकृतटिप्पनसमेतम् । (भुवन० )-महाविद्यावृत्तौ ग्रन्थकारोऽभिधेयपरिपाटीमाह-पदाक्षेपः पूर्व तदनु परिपाटीविघटनमित्यादि । पदाक्षेपः पदव्याख्यापदविग्रहपदयोजनादिरूपः । परिपाटी क्रमः, तस्या विघटनं व्यावृत्त्यचिन्तेत्यर्थः । व्यावृत्त्यचिन्तायाः पदक्रमविघटनारूपत्वात् । विपक्षस्य परोद्भावितस्य स्वयं शङ्कितस्य वा व्यावृत्तिरेतावता पराशङ्काया व्यावृत्तिः । स्वार्थस्य शब्दानित्यत्वाद्यपर्यवसानलभ्यार्थस्य कथनम् । तेषां पदानां वृत्तियाख्या साध्यधर्मदृष्टान्तधर्मकथनादिरूपा कार्येत्यन्वयः । प्रतिभटं प्रतिवादिनं प्रति उपक्रम्य विरले कापि कापि स्थले अधिकारविशेषे इत्यर्थः । इत्येवं प्रकारेण नः अस्माकं विवरणं वृत्तिरर्थव्याख्याविधौ समर्थ भवतीत्यर्थः । यतोऽन्यत्रापि विवरणलक्षणमेवमेव प्रेरूपितम् “ उपोद्घातः पदं चैव पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं व्याख्या तन्त्रस्य षड्विधा ॥"-इति विवक्षितप्रकरणसिध्द्यर्थ या चिन्ता सा उपोद्घातः । तथा चोक्तम्" चिन्ता प्रकृतसिद्धयर्थीमुपोद्धात प्रचक्षते । -इति ॥ शेषं तु सुगमम् ॥ ३॥ इह खलु केचित्संबन्धप्रयोजनाद्यनभिधानेन असमीचीनत्वमाक्षिपन्ति । तथाहि-प्रकरणेनापि प्रवर्तमानेन किमपि प्रतिपाद्यं संबन्धं वा कमप्यपेक्ष्य प्रवर्तनीयम् । यतः ( भुवन० )-ननु संबन्धप्रयोजनाद्यभिधानाभावेन प्रकरणमेवेदं न स्यादित्याशङ्कतेइह खलु केचित्संबन्धप्रयोजनाद्यनभिधानेनेत्यादि । संबन्धो विषयविषयिभावलक्षणो वाच्यवाचकभावलक्षणो वा । प्रयोजनं अनन्तरपरंपरभेदभिन्नं कर्तृश्रोत्रसंबन्धि, तयोरनभिधानेन असमीचीनत्वमाक्षिपन्ति उद्भावयन्ति । केऽपीति संबन्धः । तथाहि-प्रकरणेनापीत्यादि । प्रकरणेनापि प्रतिपाद्यमभिधेयं संबन्धं वा पूर्वोक्तमपेक्ष्य प्रवर्तनीयम् । ___ “शास्त्रैकदेशसंबद्धं शास्त्रकार्यान्तरे स्थितम् । __आहुः प्रकरणं नाम ग्रन्थभेदं विपश्चितः" इति हि तल्लक्षणात् । अत्र च तस्याभावादिति । तदपि न विद्वन्मानसमानन्दयति । तस्य सर्वत्रि सत्त्वात् । तथाहि-शास्त्रप्रतिपादिताथैकदेशसंक्षेपकं हि प्रकरणम् । इदमपि तथा । अतः शास्त्रीयैरेव तैरिदमपि तद्वत् । भिन्नोक्तौ ग्रन्थयाहुल्येन प्रकरणत्वव्याघातात् । तस्मात्साधुरेवारम्भः । अत्रापि छलप्रतिवादिनः सर्वमयथावन्मन्यमानस्य प्रमाणेन पूर्व मुखमुद्रणार्थं पक्षस्य तावदनेकत्वमुदाहरणैरेव सूचितम् । १ शङ्कया' इति ध पुस्तकपाठः। २ प्रतिरू इति ध पुस्तकपाठः। ३ अपोद्धा इति त ध पुस्तकपाठः । ४ सिद्धयर्थ मपों इति त ध पुस्तकपाठः। ५ आदितः 'प्रवर्तनीयम् । यतः' इत्यन्तः ग्रन्थांशः क पुस्तके नास्ति। ६ °न्तरपरभे' इति व पुस्तक पाठः। ७°मानसमानं पदं दर्शयति । तस्य इति क पुस्तकपाठः। ८ सर्वस्यास्य स इति क पुस्तकपाठः। ९ प्रतिपादनैकदेश' इति क पुस्तकपाठः । १० भिन्नोक्तैः ग्रन्थ इवि क पुस्तक पाठः। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247