Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library

View full book text
Previous | Next

Page 182
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प०३ महाविद्याविडम्बनम्। १३३ द्यापि स्वानैकान्तिकत्वादिव्युत्पादनेन स्वव्याघातकैवेति कथं न दुष्टा । केवलमुत्तरत्वाभावाजातिसाधनमियम् । अन्यत्तु जात्युत्तरमिति। द्वितीये तु उत्तरत्वविशेषणं व्यर्थम् । स्वव्याघातकत्वस्यैव दुष्टत्ववोधापरपर्यायदुष्टिजनकत्वात् । दुष्टत्वबोधानुपयोगिविशेषणोपादाने च स्वव्याघातकं साधनं जातिरिति साधनत्वविशेषणोपादानेन उत्तरस्यापि जातित्वं निवर्तयतः किमुत्तरं स्यादिति । (भुवन० )-उत्तरश्लोकावताराय चोदयति-नन्विति । आद्यं प्रत्याह-आये नेति । महाविद्यायाः अप्रमाणत्वे महाविद्याबलेन नानैकान्त्यादिदोषसिद्धिरिति दोषाभावान्महाविद्यासमञ्जसैवेति भावः । द्वैतीयकं निलोंठयति-द्वितीये इति । महाविद्यायाः प्रमाणत्वेऽनैकान्त्यादिदोषव्युत्पादनं व्याहतमित्याशयः । ___ एतावता द्वितीयविकल्पोक्तां प्रमाणीकृतमहाविद्यादोषव्युत्पादनं भवतां स्वव्याघातकमिदं जात्युत्तरमिति पराशङ्कां निरस्यति-स्वव्याघातकमुत्तरमित्यादि ॥१८॥ काव्यं व्याकुरुते-अयमर्थः इत्यादि । जातेः परसंमतलक्षणं प्रदय विकल्पयति-तत्र किं स्वेति । जातिर्हि दुष्टत्वगमिका, जातौ सत्यां दुष्टत्वस्य सद्भावात् । सा च स्वव्याघातकोत्तररूपा । तेन तत्र 'स्वव्याघातकमुत्तरं जातिरिति लक्षणे स्वव्याघातकत्वमेव दुष्टत्वगमकं, किं वा स्वव्याघातकमुत्तरमिति भावः । विकल्पयुगलमपि क्रमेण दूषयति-आद्य इति । स्वव्याघातकत्वस्यैव दुष्टत्वे महाविद्यापि स्वस्यानकान्तिकत्वादिदोषसाधनेन दुष्टैवेत्यर्थः । केवलमिति । अत्र स्वव्याघातकत्वमस्ति, न तूत्तरत्वम् । तेन यथा मृषोद्यमुत्तरं जात्युत्तरं, तथा मिथ्यासाधनं जातिसाधनमियं महाविद्येत्यभिप्रायः । अपरं पक्षं दूषयति-द्वितीये इति । स्वव्याघातकमुत्तरं दुष्टत्वं गमयतीतिरूपे स्वव्याघतकत्वस्यैव दुष्टत्वगमकत्वादुत्तरत्वविशेषणं व्यर्थमित्यर्थः । ' स्वव्याघातकमुत्तरं जातिरिति लक्षणस्य वृद्धप्रणीतत्वान्नोत्तरत्वविशेषणं हातुं शक्यमित्याशङ्कयाहदुष्टत्वबोधानुपयोगीति । दुष्टत्वबोधस्य अनुपयोगिविशेषणमुत्तरत्वं, तस्योपादाने उत्तरत्वविशेषणस्थाने साधनत्वविशेषणग्रहणात् । स्वव्याघातकं साधनं जातिरिति लक्षणेन स्वव्याघातकमुत्तरं जातिरिति लक्षणोपात्तस्य उत्तरत्वविशेषणस्यापि जातित्वं निवर्तयतः परस्य पुरस्तात्तव किमुत्तरं स्यादिति परमार्थः । किञ्च उत्तरत्वविशेषणेन साधनस्य जातित्वं निवर्ततां, स्वव्याघातकत्वेन दुष्टत्वं तु न निवर्तते एव । न हि उत्तरगतं स्वव्याघातकत्वं दुष्टत्वं गमयति, नतु साधनगतमित्यत्र नियामकमस्ति । (भुवन०)-'प्रथमं च दूषणमित्येतद्व्याख्याति-किञ्चेत्यादि । उत्तरत्वविशेषणग्रहणे सत्युत्तरस्यैव जातित्वं स्यात्, नतु साधनस्य । तथाप्युत्तरत्वविशेषणे साधनत्वविशेषणे वा सत्यपि स्वव्याघातकत्वेन दुष्टत्वं स्यादेवेत्यर्थः । एतावता द्वितीये पक्षे जातिसाधनं नाम प्रथममपि दूषणं कथितं भवति । 'न्यायस्य तुल्यत्वतः' इत्येतद्व्याचष्टे-न हि उत्तरेति । उत्तरगतमुत्तरत्वविशेषण For Private And Personal Use Only

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247