Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library

View full book text
Previous | Next

Page 200
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प०३ १५१ महाविद्याविडम्बनम् । अथ प्रशस्तिः । श्रीवीरः श्रेयसे भूयाचित्रकृञ्चरितः सताम् । सिद्धार्थमपि सिद्धार्थतनयं यं विदुर्बुधाः ॥१॥ तत्पट्टमुकुटं श्रीमान् सुधर्मगणभृद्वभौ । गङ्गेव द्वादशाङ्गीयं यतो हिमवतोऽजनि ॥२॥ अभूवंस्तस्य संताने श्रीजगञ्चन्द्रसूरयः। तदीयानुक्रमे चाथ भूरिसूरिपवित्रिते ॥ ३ ॥ श्रीमत्तपागणसरोजसरोजिनीशा । भक्तिप्रकर्षविनमत्सकलावनीशाः । श्रीदेवसुन्दर इति प्रथिताभिधानाः सूरीश्वराः समभवन्भुवनप्रधानाः ॥ ४ ॥ ॥ युग्मम् ।। अन्यासाध्यविशुद्धतीव्रतपसा विश्वत्रयोहयोतक त्तत्ताडग्यशसा प्रतापमहसाऽपास्तार्यमज्योतिषा । संपूर्णागमधारणेन हरणेनोाः समग्राशिव प्रोद्भूतैश्च (?) युगप्रधानपदवीमासादयन् ये भुवि ॥५॥ श्रीमच्चन्द्रकुले तदीयविलसत्पट्टोदयाद्रौ बुधा नव्याः केऽप्युदिताः स्फुरनिजगवा विश्वत्रयोहयोतिनः। भास्वदगी:पतिमित्रतामुपगता: श्रीमङ्गलोल्लासिनः श्रीगच्छाधिपसोमसुन्दरवराचार्या विराजन्त्यमी ॥ ६ ॥ वादीन्द्रव्रजनिर्जयानलभरैर्ब्रह्माण्डभाण्डे परि क्षिप्य प्रौढयशःपयो गुणसितायुक्तं यदीयं विधिः । पाचं पाचमचिन्तनीयरसतां निन्ये तथा कोविदाः __स्वादं स्वादमहर्निशं श्रुतिमुखैस्तृप्तिं यथा यान्ति न ॥ ७ ॥ तदीयकरमाहात्म्यजलवर्द्धिष्णुवैभवाः । श्रीसूरयस्त्रयो भान्ति सहकारतरूपमाः ॥ ८॥ आद्या: श्रीमुनिसुन्दराव्हगुरवस्तेषु स्फुरत्कीर्तय स्तर्कव्याकरणादिशास्त्रनिपुणा राजन्ति यैनिर्मितः । हस्ताष्टाप्रशतप्रमाणकलितो लेखः सकृजल्पित प्रोद्यन्नामसहस्रधारणकलौx x x x x ॥ ९ ॥ १ इयं प्रशस्तिः द पुस्तके एव लब्धा । २ इतः परमार्शपुस्तकस्यैकं पत्रं लुप्तम् । अतोऽपूर्णवेयं प्रशस्तिः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247