Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महाविद्याविवरणम् ।
१६१ (भुवन० )-शास्त्रैकदेशसंबद्धमित्यादि । प्रमाणप्रमेयादिसर्ववस्तुप्रतिपादकस्य शास्त्रस्य यः एकदेशः प्रमाणप्रतिपादनादिरूपः तेन संबद्धम् । यथा प्रमाणतद्भेदतदन्यलक्षणादिप्रतिपादनपरं न्यायसारादि प्रकरणम् । शास्त्रकार्य मोक्षादि । शास्त्रस्य मुख्यत्वेन मोक्षार्थत्वात् । तस्मादन्यत्कार्य शास्त्रकार्यान्तरं प्रमाणप्रमेयप्रतिपादनादिरूपम् । तस्मिन्स्थितम् । एवं विषं ग्रन्थभेदं विपश्चितो विद्वांसः प्रकरणं प्राहुरित्यर्थः ।
तस्य सर्वस्येति । तस्य प्रकरणलक्षणस्येत्यर्थः । शास्त्रीयैरेवं तैरित्यादि । शास्त्रीयैः शा. संबन्धिभिरेव तैः संबन्धप्रयोजनादिभिरिदमपि तद्वत् संबन्धप्रयोजनादिवत् । संबन्धश्चात्र विषयविषयिभावादिः । विषयो महाविद्यानुमानानि, विषयी चैतत्प्रकरणमेव, प्रयोजनं च शब्दानित्यत्वादिसाधनरूपमत्र मन्तव्यम् । तस्मात्तद्वत्त्वेन प्रकरणमेवेदम् । संबन्धप्रयोजनादीनां भिन्नोक्तौ पृथगुक्तौ ग्रन्थबाहुल्येन प्रकरणत्वव्याघातात् । संबन्धप्रयोजनादीनां तु पृथगुक्तौ शास्त्रमेवेदं स्यात्, न तु प्रकरणमित्यर्थः । यत:पक्षत्वं हि कचिदपि भजत्यत्र मिथ्या सपक्षः
पक्षीकार्यः कचिदपि विपक्षोऽपि वालीक एव । पक्षः साक्षात्कचिदपि भजत्यन्यपक्षस्य कक्षा
मेवं पक्षः श्रयति बहुधा रूपभेदं नवीनम् ॥ विपक्षसपक्षयोस्तु पक्षीकरणमव्यभिचरणार्थमेव । तयोस्तयाहतमितिचेत् । न । उपलक्षणत्वेन अविरोधात् ।
( भुवन० )-पक्षत्वं हि कचिदपि भजत्यत्र मिथ्या सपक्षः इत्यादि । मूलानुमानसपक्षो घटादिः क्वापि मिथ्यैव पक्षत्वं भजते । स्वाभिमतसाध्यस्य शब्दरूपे पक्षे एव सिद्धेः मिथ्येत्युक्तम् । एवमग्रेऽपि पदसाफल्यं स्वयं ज्ञेयम् । कचिदपि मूलानुमानविपक्षोऽपि गगनादिः पक्षीकार्यः । साक्षात्पक्ष: शब्दरूपः कचिदप्यन्यपक्षस्य सपक्षादेः कक्षा प्रतिज्ञां भजते । सपक्षविपक्षादिकं वा पक्षीकृत्य प्रवर्तमानमहाविद्यासु शब्दरूपपक्षस्यापि सपक्षत्वात् । विपक्षसपक्षयोस्तु पक्षीकरणमव्यभिचरणार्थमेवेति । अत्र महाविद्यायां विपक्षसपक्षयोः पक्षीकरणमव्यभिचरणार्थम् । अयमर्थःपक्षस्यैव पक्षीकरणे पक्षे विपक्षे सपक्षे च वर्तनाद्धेतोय॑भिचारः स्यात् । ततः तन्निवर्तनाय विपक्षसपक्षयोः पक्षीकरणम् । तथा च व्यभिचारस्थानं विपक्षोऽपि यदि पक्षी कृतः, तर्हि विपक्षाभावात् कापि व्यभिचारो न भवेदित्यर्थः । तयोस्तद्व्याहतमिति चेदिति । तयोः विपक्षसपक्षयोः तत्पक्षीकरणं व्याहतमिति चेत् इत्युक्ते आचार्यः आह-न। उपलक्षणत्वेनेत्यादि। पक्षपक्षीकरणस्योपलक्षणत्वेन विपक्षसपक्षयोरपि पक्षीकरणस्याविरोधात् ।
ननु उपलक्षणत्वमपि कदाचित्संबन्धिनि भवति । विपक्षसपक्षयोस्तु १ शब्दस्वरूपे इति त पुस्तक पाठः । २ दप्यपक्ष' इति त पुस्तकेतरपुस्तकपाठः ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247