Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library

View full book text
Previous | Next

Page 202
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघुमहाविद्याविडम्बनम् १५३ अन्यच्च, अत्र आत्मनः पक्षत्वमेव न संगच्छते । “संदिग्धसाध्यवान्पक्षः " इति पक्षलक्षणम् । तच्चात्र नास्ति । अनित्यत्वस्य शब्दे साध्यत्वेन शब्दस्यैव संदिग्धसाध्यत्वात् । आत्मनो नित्यत्वेन उभयोः सिद्धस्य तथात्वाभावात् । न हि जले शैत्ये साध्यमाने अनल: शीतलः इति केनाप्युच्यते । ततश्चात्मादयोऽत्र पक्षत्वेनोपन्यस्ताः अपि अजागलस्तनकल्पत्वेन असत्कल्पाः एव । ___ एवं सपक्षोऽपि पक्षीकृतो निलोंठयितव्यः । युक्तेः समानत्वात् । यच्च साध्यं पक्षीक्रियते सदप्ययुक्तम् । साध्यं हि सर्वैरपि धर्मिणि साध्यते, न तु साध्ये । साध्यस्य संदिग्धसाध्यवत्त्वपक्षलक्षणाभावात् । एवमपि साधने घटोऽपि घटे, पटोऽपि पटे साध्यताम् । तार्किकव्यवहारपरित्यागात् । यथा साध्याभावमपि पक्षीकुरुते, तदप्यसमीचीनम् । सर्वथा असतो निरुपाख्यत्वेन पक्षीकर्तुमशक्यत्वात् । असदपि चेत् पक्षीक्रियते, तदा तुरङ्गशृङ्गगगनाम्भोरुहादयोऽपि पक्षीक्रियन्ताम् । युक्तेः समानत्वात् । तुच्छे साध्याभावेऽपि साध्यसाधने दरिद्रमेव विश्वं स्यात् । तत एषा महाविद्या पण्यस्त्रीव सविभ्रमा। बाह्याडम्बरमात्रेण गोहेयेन्न तत्त्वतः ॥ ३ ॥ अपिच महाविद्याहेतुः केवलान्वयी त्वया उच्यते । केवलान्वयित्वमेव विचारं नाञ्चति । यतः केवलान्वयित्वं सकलवस्तुनिष्ठत्वं त्वया अभ्युपेयते । तथाच सति प्रमेयत्वहेतुः प्रमेयत्वेऽस्ति न वा । अस्ति चेदात्माश्रयः । न चेत्तर्हि स्वस्मिन्नस्यैव अवर्तनात्केवलान्वयित्वभङ्गः । तथा महाविद्यासाध्यमपि सकलवस्तुनिष्ठं स्वीचक्राणम् । तथात्वे च महाविद्यासाध्यं महाविद्यासाध्ये विद्यते न वा। विद्यते चेत्तर्हि व्याघातः । न हि घटे घटो वर्तते एकस्मिन् तहयप्रसङ्गात् । नो चेत्केवलान्वयित्वभङ्गः एव । ततश्च नानाभरणयुक्तापि दुर्भगस्त्रीव वीक्षिता। बाह्ययुक्तिगुणाप्यन्ते मोहूँ ......... ॥ ४ ॥ अति प्रसङ्गदूषणमपि महाविद्यायां स्पष्टमेव । यतोऽनेन प्रकारेण प्रमथनाथादीनामपि अनित्यत्वादिसाधनदर्शनात् भवतः स्वमन्दिरोदरविदारणोपायप्रसङ्गः । तथाहि-ईश्वरः स्वस्वेतरवृत्तित्वानधिकरणासर्वव्यापकनिष्ठाधिकरणं मेयत्वात् घटवत् । अथवा आकाशस्य असर्वव्यापकत्वे एतदेवानुमानम्-आकाशः स्वस्वेतरवृत्तित्वानधिकरणासर्वव्यापकनिष्ठाधिकरणं मेयत्वात् घटवत् । अयं घटः एतद्घटान्योन्यसकर्तृकान्यः मेयत्वात् गगनवत् । अनेनानुमानेन तव भूभूवरादेः सकर्तृक(त्व) साधनाभिधाने अनेनैव चास्माभिरकर्तृकत्वमपि साध्यते । तथाहि-आकाशः आकाशाङ्कुरान्यान्याकर्तृकान्यो मेयत्वात् घटवत् । अपिच अनेनैव अनुमानेन ईश्वरस्यापि सकर्तृकत्वं साधयितुं शक्यते एव । तथाहि-अयं घटः एतद्बटेश्वरान्यान्यसकर्तृकान्यः मेयत्वात् घटवत् । एवं विधानुमानैश्च विप्रोऽपि शूद्रमुद्रावान् कर्तुं शाशक्यते एव । तथाहि-विप्रः स्वस्वेतरवृत्तित्वानधिकरणाशूद्रमुद्रावनिष्ठाधिकरणं मेयत्वात् घटवत् । तदेवं सर्वानुमानानि शब्दपरावर्तेन विपरीतानि कृत्वा वितण्डावादी निर्लोठनीयः । ततश्च आप्तप्रणीतसिद्धान्तमार्गविप्लावकत्वतः । तमस्विनी महाविद्या सिद्धिसौधं न गच्छति ॥ ५॥ १ 'मोहयेत्' इति स्यात् । २ 'तु' इति स्यात् । ३ अत्र आदर्शपुस्तके षडक्षराणि न विद्यन्ते । २०-२१ महाविद्या० For Private And Personal Use Only

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247