Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library

View full book text
Previous | Next

Page 135
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८६ भुवनसुन्दरसूरिकृतटीकायुतं द्वितीयः । अप्रामाणिकाभावत्वाप्रामाणिकत्वयोः क्वचिदपि व्यास्यसिद्धेर्मूलशैथिल्यादिति । पूर्ववदापाद्यापादकयोरप्रसिद्धेश्च । (भुवन०)-अथ आश्रयायिभावस्याप्रामाणिकत्वात्तभावस्याप्यप्रामाणिकत्वमिति शङ्कतेअथैतद्धटैतभूतलेत्यादि । तदभावोऽपीति । एतद्बटैतद्भूतलाश्रयायिभावाभावोऽपीत्यर्थः । अत्र युक्तिमाह-नहीत्यादि । अप्रामाणिकस्य आश्रयिभावादेरभावोऽप्रामाणिकाभावः । अभावनिरूपकत्वात्प्रतियोगिनः, तदभावोऽपि तत्समान एव न्याय्य इत्यर्थः । विकल्पासहत्वेन परोदितं दूषयति-तन्नेति । अप्रामाणिकाभावत्वेनेति । अप्रामाणिकस्याभावोऽप्रामाणिकाभावः, तस्य भावस्तत्त्वं, तेन । अप्रमाणिकत्वमनुमीयते इति । एतद्धटैतद्भूतलाश्रयाश्रयिभावाभावोऽप्रामाणिकः अप्रामाणिकाभावत्वात् खरविषाणाभाववदित्यनुमानं क्रियते । किं वाप्रामाणिकेति । अप्रामाणिकस्याभावत्वेनाप्रामाणिकत्वमापाद्यते । यः एवापाद्यते स एव तर्कः, 'आपाधाभिन्नत्वात्तस्ये 'ति वचनादनिष्टापादनरूपस्तों वापाद्यत इति । एतावता इदमनुमानमापाद्यरूपस्तों वेति विकल्पौ इत्यर्थः । आये विकल्पेऽप्रामाणिकाभावः प्रमितो न वेति द्वेधा विकल्प्य, क्रमेण दूषणोद्धोषणां विधत्ते-- अप्रामाणिकामावस्येति । अप्रामाणिकस्य अभाव इति समासः । विरोधादिति । यदि अप्रामाणिकाभावस्तर्हि कथं प्रमितः, अप्रामाणिकस्य प्रमाणाग्राह्यत्वेन तदभावस्यापि तथात्वादित्यभिप्रायेण विरोध इत्यर्थः । अप्रमितत्वे इति । अप्रामाणिकस्य आश्रयायिभावस्याभावः पक्षीकृतो यद्यप्रमितः प्रमाणेन न गृहीतः, तर्हि तस्मिन्नप्रमिते खरविषाणे इव प्रवर्तमानोऽप्रामाणिकाभावत्वादिति हेतुराश्रयासिद्धः स्यादित्यभिप्रायः । अथाप्रामाणिकाभावत्वादित्ययं हेतुरसिद्ध इत्याहअप्रामाणिकाभावप्रतीतिमिति । हेत्वप्रमितेश्चेति । अप्रामाणिकाभावत्वादिहेतोभवन्मतेऽप्रामाणिकत्वादप्रसिद्धत्वेनासिद्धत्वमित्यर्थः । अथ द्वितीयं विकल्पमुत्थापयति । नापि द्वितीय इति । अप्रामाणिकत्वमापाद्यते इत्येवंरूपो द्वितीयोऽपि न । अप्रामाणिकाभावेति । अप्रामाणिकाभावत्वं व्याप्यम् । अप्रामाणिकत्वं व्यापकम् । तयोश्च यत्र अप्रामाणिकाभावत्वं तत्र अप्रामाणिकत्वमिति व्याप्त्यसिद्धाप्त्यनुपपत्तेः । यतो विवक्षितभूतलेऽप्रामाणिकाश्रयायिभावाभावोऽप्रामाणिको न भवत्यस्माकं मते । तस्य चाक्षुषत्वेन प्रामाणिकत्वात् । मूलशैथिल्यादिति । तर्कस्य हि मूलं व्याप्तिः, तस्याश्चात्रासिद्धेः प्रशिथिलमूलतापरपर्यायो मूलशैथिल्याख्यस्तर्कदोषः स्यादेवेत्यर्थः । तथा अप्रामाणिकाभावप्रतीतिमनङ्गीकुर्वतो भवतः आपादकादेरसिद्धिरपि तर्कदोषः स्यादित्याहपूर्ववदापावापादकयोरप्रसिद्धश्चेति । व्याप्योऽप्रामाणिकाभाव आपादकः, व्यापकमप्रामाणिकत्वमापाद्यं तयोरप्रसिद्धेरिति । आपादकादिकं हि प्रसिद्धं वाच्यम् । तच्च भवन्मतेऽप्रामाणिकत्वेनाप्रसिद्धमिति युक्तं तदप्रसिद्धयाख्यानमित्यर्थः । ननु असति तस्मिन् कस्याभावः इति चेत् । यस्मिन् असतीति त्वयो. च्यते तस्यैव । (भुवन० )-अथ ' यदस्ति तन्मेयमिति नियमादप्रामाणिकत्वेन प्रतियोगिनः एतद्धटैतद्भूतलाश्रयाश्रयिभावादेरसत्त्वात् अभावो न स्यान्निरूपकाभावादित्याशङ्कते-नन्वित्यादि । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247