Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library

View full book text
Previous | Next

Page 206
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ परिशिष्टम् । अर्थ महाविद्याविवरणम्। ___श्रीभुवनसुन्दरसूरिविरचितटिप्पनसमेतम् । श्रुतिमयतनु केचित्केचिदानन्दरूपं विगलिततनु केचित्केचिदच्छस्वरूपम् । अभिदधति यदेकं तन्नमामीह जन्मस्थितिलयपरितापारम्भहीनं स्वरूपम् ॥ १॥ श्रीभुवनसुन्दरसूरिविरचितं महाविद्याविवरणटिप्पनम् । श्रियो धाम श्रीमज्जिनवरपदाम्भोजयुगलं गिरं देवीं चेतोऽभिमतफलदाने सुरमणीम् । नमस्कृत्यानन्दाद्गुरुचरणयुग्मं च विधिना ___ महाविद्यावृत्तेः किमपि करवै टिप्पनमहम् ॥ १॥ प्रायष्टीकाकृतैतस्या रहस्यं न प्रकाशितम् । _रहस्याख्यानपूर्व तद्वत्तिाख्यायते मया ॥२॥ महाविद्याबृहद्वत्तिाख्याता प्रायशो मया । विडम्बनस्य टीकायां विलोक्या सा तदर्थभिः ॥ ३ ॥ अथ महाविद्या कथं समुत्पन्नेति वाच्यमार्याद्वयमुच्यते । भाट्टा नित्यं शब्दं योगाद्या वादिनस्त्वनित्यं च । प्रतिजानते ततोऽयं जातस्तेषां विवादोऽत्र ॥ ४॥ तत्तस्यानित्यत्वं प्रतिपादयितुं तु भाट्टवादीन्द्रान् । यौगाचार्यों वर्यः कृतवानेतां महाविद्याम् ॥ ५ ॥ युग्मम् । अथ सामान्यतो महाविद्यास्वरूपप्रकाशकं पद्यत्रयमुच्यते । तथाहि अन्वयव्यतिरेकित्वोपेतमूलानुमाविधौ । महाविद्यानुमानं तु प्रयोज्यं केवलान्वयि ॥ ६ ॥ १ आदर्शपुस्तकस्य आदौ अन्ते वा ग्रन्थकर्तुनर्नामोल्लेखः नोपलभ्यते । २ इत आरभ्य ‘लिप्यक्षराण वर्णोपलक्षकत्वमिव' (पृ. १६२) इत्यन्तः ग्रन्थः ख पुस्तके नास्ति, तस्य प्रथमपत्रस्य लप्तत्वात् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247