Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library

View full book text
Previous | Next

Page 118
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प०१ महाविद्याविडम्बनम् । योग्येव । न हि शब्दे शब्दोऽस्ति । शब्दे शब्दत्वादिधर्माणामेव भावात् । शब्दत्वादौ च शब्दनिष्ठो भावः शब्दत्वाद्यन्योन्याभावादिः, तत्प्रतियोगित्वं च शब्दत्वादीनां व्यक्तमेवेति तेषामपि सपक्षता, इति न केवलान्वयित्वभङ्गशङ्कापि विधेयेत्यर्थः ॥ १॥ यावत्यश्च महाविद्या मूलानुमानपक्षं पक्षीकृत्य प्रवृत्ताः, तावत्यः साध्याभावमपि पक्षीकृत्य प्रयोक्तव्याः । यथा १ अनित्यत्वात्यन्ताभावः स्वस्वेतरवृत्तित्वरहितैतच्छब्दानिष्ठधर्मवान् मेयत्वात् घटवदिति ॥१॥ १ (आनं०)-एतच्छब्दनिष्ठो न भवतीत्येतच्छब्दानिष्ठस्तस्य धर्मस्तद्वानित्यर्थः । अनित्यत्वात्यन्ताभावस्यैतच्छब्दनिष्ठत्वे तद्धर्मस्यैतच्छब्दनिष्ठधर्मत्वात् एतच्छब्दनिष्टधर्मवत्त्वायोगात् अनित्यत्वात्यन्ताभावः एतच्छब्दनिष्ठो न भवतीत्येतच्छब्दानित्यत्वसिद्धिरिति भावः । मेयत्वादिनार्थान्तरं व्यावर्तयितुं स्वेतरवृत्तित्वरहितग्रहणम् । अप्रसिद्धविशेषणत्वपरिहाराय स्वस्वेतरेत्युक्तम् । पक्षान्योन्याभावमादाय साध्यानुगमः ॥ १॥ (भुवन०)-पक्षपक्षीकरणप्रवृत्तमहाविद्यानामत्राप्यतिदेशं कुर्वाणः प्रथमां साध्याभावं पक्षीकृत्य प्रवृत्तामाह यथा-अनित्यत्वात्यन्ताभावः स्वस्वेतरेत्यादि । स्वं नित्यत्वं, स्वेतरत् नित्यत्वान्यद्विश्वं तद्वत्तित्वरहितः। एतच्छब्दे निष्ठो न भवतीत्येतच्छब्दानिष्ठः, तस्य धर्मः एतच्छब्दानिष्टधर्मः । स्वस्वेतरवृत्तित्वरहितश्चासौ एतच्छब्दानिष्ठधर्मश्च, स विद्यते यत्रासौ तद्वान् । नित्यत्वं स्वस्वेतरवृत्तित्वरहितैतच्छब्दानिष्ठधर्माश्रयः इत्यर्थः । अत्र नित्यत्वे पक्षे पक्षान्यान्यत्वं धर्मः । स च पक्षे एव वर्तनात्, अन्यत्र चावर्तनात् स्वस्वेतरवृत्तित्वरहितोऽस्ति । स चैतच्छब्दानिष्ठस्य धर्मस्तदैव स्यात्, यदि नित्यत्वमेतच्छब्दानिष्टं स्यात् । नित्यत्वं च यदि नैतच्छब्दनिष्ठं, तदैतच्छब्दस्यानित्यत्वं जातमेवेत्येतच्छब्दस्य अनित्यत्वसिद्धिरिति । अत्र च दृष्टान्ते सर्वत्र पक्षान्यत्वं धर्मः । स च पक्षेऽवर्तमानत्वेन पक्षादन्यत्र सर्वत्र वर्तमानत्वेन च स्वस्वेतरवृत्तित्वरहितो घटत्वाकाशत्वादौ वर्तमानत्वेन चैतच्छब्दानिष्टस्य घटत्वादेरपि धर्म एवेति घटाकाशशब्दादौ सर्वत्रापि तेन धर्मेण साध्यप्रसिद्धिष्टव्येति तत्त्वार्थः । एवमनित्यत्वात्यन्ताभावः सम्प्रतिपन्नतद्धर्मत्वानाक्रान्ताधिकरणं मेयत्वाद्धटवदित्यादयोऽपि महाविद्याः यथा सम्भवमुदाहर्तव्याः । अत्र च सम्प्रतिपन्नतद्धर्मत्वानाक्रान्तो धर्मः पक्षावृत्तिर्वा विप्रतिपन्नमेतच्छब्दानिष्टत्वं वा । आद्यः पक्षे व्याहत इति तेन सर्वत्र दृष्टान्ते साध्यसिद्धिः । द्वितीयस्तु विप्रतिपन्नैतच्छब्दानिष्ठत्वरूप: पक्षे सिद्धयन्ननित्यत्वमेतच्छब्दस्य गमयेदिति तात्पर्यम् ॥ १ ॥ इति साध्याभावपक्षीकरणप्रवृत्तमहाविद्योपायः प्ररूपितः ।। अथ पक्षनिष्ठधर्म पक्षीकृत्य प्रवर्तमाना महाविद्याभेदा यथा १ शब्दत्वं शब्दत्वव्यतिरिक्तैतच्छब्दनिष्ठत्वरहितशब्दत्वव्यतिरिक्तानित्यत्वात्यन्ताभावव्यतिरिक्तत्वरहितान्यत् मेयत्वादिति ॥ ये शब्दत्वव्यति १ साध्यात्यन्ताभाव इति ज पुस्तकपाठः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247