Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library

View full book text
Previous | Next

Page 183
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३४ भुवनसुन्दरसूरिकृतटीकायुतं सहितं स्वव्याघातकत्वं दुष्टत्वं गमयति, न तु साधनगतं साधनत्वविशेषणसहितमित्यत्र नियामकं नियमकारि न हि किञ्चिदस्ति । एतावता जातिसाधने जात्युत्तरे च न्यायस्य तुल्यत्वं दर्शितं भवति । ____अथ अयं शब्दः स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणं मेयत्वादित्यत्र अनित्यत्वसाधने शब्दविशेषो धर्मी, पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं च साध्यम् । पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं स्वस्वेतरवृत्तित्वरहितमेयत्ववन्निष्ठात्यन्ताभावप्रतियोगिनिष्ठाधिकरणमित्यत्र अनैकान्तिकत्वसाधने च पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं धर्मी, एतदितरवृत्तित्वरहितमेयत्ववनिष्ठात्यन्ताभावप्रतियोगिनिष्ठाधिकरणत्वं च साध्यम् । तेन अनयोर्महाविद्ययोर्धर्मिसाध्यभेदान्महान्भेदः । तथा च या तावदनित्यत्वं गमयति, नासौ स्वात्मनो ऽनैकान्तिकत्वं गमयति । या पुनरनैकान्तिकत्वं गमयति, नासौ शब्दानित्यत्वं गमयति । तेन स्वव्याघातकत्वाभावान्महाविद्या न जातिसाधनमिति चेत् । न । यदि अनित्यघटसाधादनित्यः शब्दः स्यात्, तर्हि नित्याकाशसाधादमूर्तत्वान्नित्योऽपि स्यादिति साधर्म्यसमायां प्रयुक्तायां स्वव्याघातकत्वं कीदृशं वक्तव्यम् । यदि नित्यसाधान्नित्यत्वमुच्यते, तर्हि उत्तराभाससाध `त्त्वदुक्तिरुत्तराभासः स्यादिति स्वव्याघातकत्वं साधर्म्यसमायां वक्तव्यमिति चेत् । न । नित्यसाधान्नित्यत्वापादनस्य उत्तराभाससाधादुत्तराभासत्वापादनस्य च सुव्यक्तभेदत्वेन स्वव्याघातकत्वस्यानुपपत्तेः । समानरीतिकत्वेन तु स्वव्याघातकत्वं महाविद्यायामपि समानम् । यदि च व्याघातोऽत्र न संभवति, तर्हि पूर्वोक्तन्यायेन अनैकान्तिकत्वमेव अनुमानबलादुद्भावनीयम् । (भुवन०)-अथ स्वव्याघातकत्वमेव महाविद्याया नास्तीति प्रतिपादयितुं शाशतिअथायमित्यादि । एतन्महाविद्याद्वयं पुरापि व्याख्यातार्थमेव । धर्मिसाध्यभेदादिति । धर्मी च साध्यं च तयोर्भेदादिति । महाभेदमेव भावयति-तथा चेति । न जातिसाधनमिति यावत्सुगमम् । सिद्धान्ती प्रतिसमाधत्ते-न । यद्यनित्येति। अनित्यः शब्दः कृतकत्वाद्धटवदित्युक्ते जातिवादिना च यद्यनित्यघटसाधर्म्यात्कृतकत्वादनित्यः शब्दः स्यात्, तर्हि नित्याकाशसाधादमूर्त्तत्वेन नित्योऽपि स्यादिति साधर्म्यसमायां जातौ प्रयुक्तायां भवता स्वव्याघातकत्वं कीदृशं वक्तव्यम् । स्वव्याघातकत्वं च सर्वजांतिसाधारणलक्षणत्वेन गवेष्यते एव । प्रलं मत्वा परः उत्तरमाहयदि नित्येति ।परिहरति-न। नित्येति। यन्नित्यसाधान्नित्यत्वापादनमुत्तराभाससाधादुत्तराभासत्वापादनं च, तयोर्द्वयोरपि सुव्यक्तभेदत्वेन अतिस्फुटभेदत्वेन स्वव्याघातकत्वं नोपपद्यते। अयमर्थः। नित्यत्वापादनस्य उत्तराभासत्वापादनस्य च भिन्नविषयत्वेन विरुद्धसमुच्चयाभावान्न स्वव्याघातो. ऽत्रेति । विषयभेदेऽपि यदि समानन्यायतयात्र स्वव्याघातः, तदानीं तयैव युक्त्या महाविद्यास्वपि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247