Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library

View full book text
Previous | Next

Page 163
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११४ भुवनसुन्दरसूरि कृतटीकायुतं एवंविधेति । यद्धेतूनामनैकान्तिकत्वं साधयितुं शक्यते, तान्येवंविधानुमानानि महाविद्यानुमानादीनि तेषामस्माभिः प्रामाण्यं नाङ्गीक्रियते इत्याशयः । एवं पक्षीकृतशब्दतदितरवृत्तित्वरहिता नित्यनिष्ठाधिकरणत्वं मेयत्ववनिष्ठात्यन्ताभावप्रतियोगित्वव्यतिरिक्तैतद्धर्मत्वरहिताधिकरणं, मेयत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वव्यतिरिक्तैतन्निष्ठत्वरहिताधिकरणत्वान्यत्वात् घटव - सर्वमहाविद्यासु अनैकान्तिकत्वं साधनीयमिति । दित्यादिभिरपि ( भुवन ० ) - महाविद्यानैकान्तिकत्वसाधनाय तातयिकमनुमानं दर्शयति- पक्षीकृतशब्देति । पक्षीकृतेत्यादि महाविद्यासाध्यं पक्ष: । मेयत्ववन्निष्टात्यन्ताभावप्रतियोगित्वव्यतिरिक्तश्चासौ एतद्धर्मत्वरहितश्च तदाश्रयः इत्यन्वयः । मेयत्ववति मेये निष्ठो योऽत्यन्ताभावस्तस्य यत्प्रतियोगित्वं धर्मस्तस्मादन्यः । एतद्धर्माः पक्षीकृतमहा विद्यासाध्यधर्माः, तत्त्वेन रहितश्च धर्मः पक्षीकृतमहाविद्यासाध्यान्यधर्मो वा व्यतिरिक्तपदेन कर्षितं मेयत्ववन्निष्टात्यन्ताभावप्रतियोगित्वं वा । आद्यो व्याहतः । न हि पक्षान्यधर्मः पक्षे वर्तते इति सम्भवति । द्वितीयस्तु पक्षे सिध्यन क्वापि मेये पक्षीकृतमहाविद्यासाध्यस्याभावं साधयति । तथा च साधनवति साध्याभावान्मेयत्वस्य व्यभिचार पिशाचसंचारदुः संचरत्वम् । आद्यः पक्षः पक्षान्यधर्मरूपः सर्वत्र सपक्षे प्रयोजक: । मेयत्वादिव्यावृत्त्यर्थमेतद्धर्मत्वरहितग्रहणम् । एतद्धर्मत्वरहिताधिकरणमित्युक्ते व्याघातः, तद्व्यावृत्त्यर्थं मेयत्ववनिष्ठेत्यादिग्रहणम् । अत्र यत्साध्यं तदन्यत्वादिति हेतुरिति हेतुव्यावृत्त्यानि स्पष्टानि । इति सव्यभिचारत्वदोषेणाकुलिता सती । कुलस्त्रीव महाविद्या प्राणानुज्झति लज्जिता ॥ १२ ॥ Acharya Shri Kailassagarsuri Gyanmandir ( भुवन० ) - सव्यभिचारत्वमुपसंहरति- इति सव्यभिचारेति ।। १२ ।। अथ सत्प्रतिपक्षत्वं पक्षिराजस्य पक्षतिः । पराभवति दुर्वारमहाविद्याभुजङ्गमान् ॥ १३ ॥ ( भुवन० ) - सत्प्रतिपक्षत्वदोषायोपक्रमते -- अथ सदति । सत्प्रतिपक्षत्वं प्रकरणसमत्वं, प्रत्यनुमानवाधितत्वमिति यावत् । पक्षिराजस्य गरुडस्य पक्षतिः पक्षमूलम् ॥ १३ ॥ धर्मी च त्वदभीष्टसाध्यरहितः साध्यस्तदेकाश्रितैः साध्याभाववदाश्रितत्वरहितैः साध्यप्रसिद्धिः पुनः । साध्यं ते स्वभिदान्यजन्मनिधनाऽनाक्रान्तभावस्फुरद्वेदस्य प्रतियोगितत्त्वविरहादित्यादिभिर्जायते ॥ १४ ॥ धर्मी पक्षीकृतः शब्दः । त्वदभीष्टं साध्यं, स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वादि । तद्रहितः तदत्यन्ताभाववान् । साध्यः अनुमेयः इत्यर्थः । १ "ति । यैः सर्वहेतुना इति च पुस्तकपाठः । २ सिध्यन्न क्वापि इति द पुस्तकपाठः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247