Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
भुवनसुन्दरसूरिकृतटिप्पनसमेतम् । पक्षत्वेन संबन्धाभावात्कथं तदिति चेत् । न ।यद्रजतमभात् सैषा शुक्तिरित्यत्र रजतस्य शुक्तिकोपलक्षकत्ववदुपपत्तिः, लिप्यक्षराणां वर्णोपलक्षकत्वमिव वेदान्तिमते मायाया ब्रह्मोपलक्षकत्वमिवेति । न च रजतादीनां शुत्त्यादिविशेषणत्वात् दृष्टान्तदार्टान्तिकयोवैषम्यमिति वाच्यम् । विशेषणस्य विद्यमानत्वव्याप्तत्वात् , विद्यमानत्वव्यापकनिवृत्तौ निवर्तनादिति ।
(भुवन०)-नोदकः आह-ननूपलक्षणत्वमपीति । उपलक्षणत्वमपि कदाचित्संबन्धिनि कदाचिद्येन सह संबन्धः स्यात्तत्र भवति । " कदाचित्संबद्धं व्यावर्तकमुपलक्षणमिति तल्लक्षणात् । कथं तदिति । तदुपलक्षणत्वं कथमित्यर्थः । आचार्यः आह-न। यद्रजतमित्यादि । यत्पूर्व भ्रान्तावस्थायां रजतमभात् प्रत्यभात् , सैषा शुक्तिरित्यत्र रजतस्य शुक्तिकोपलक्षकत्ववत् शुक्तिकाप्रत्यायनमिव पूर्वोक्तोपलक्षणत्वोपपत्तेः । अयं भावः यथा पूर्वप्रतिभातरजतेन शुक्तिकोपलक्ष्यते, तथा पक्षस्य पक्षीकरणेन विपक्षसपक्षयोरपि पक्षीकरणमुपलक्ष्यते इति । अथ पुनरपि दृष्टान्तद्वयेनैतदेव द्रढयति--लिप्यक्षराणां वर्णोपलक्षकत्वमिवेति। लिप्यक्षराणां गौर्जरकार्णाटॉन्ध्रादिलिप्यक्षराणां पुस्तकादिलिखितानां श्रोतृप्राह्यज्ञानमयवर्णोपलझकत्वमिव । वेदान्तिमते इत्यादि । वेदान्तिमते संसाररूपमायायाः अविद्येति नाम्न्याः यथा ब्रह्मोपलक्षकत्वं परब्रह्मोपलक्षकत्वमित्यर्थः । अयमत्र भावः । असत्यं हि सत्यावारे भवति, शुक्तिकायां यथा रजतप्रतिभासः । एवमत्रापि मायायाः प्रपञ्चरूपायाः असत्यत्वेन केनापि तदाधारेण सत्येन भाव्यम् । सत्यं च विचार्यमाणं ब्रह्मैव, अन्यस्य सर्वस्य प्रपञ्चान्तर्गतत्वादित्यनेन प्रकारेण मायाया ब्रह्मोपलक्षकत्वमित्यर्थः । न च रजतादीनामित्यादि । पक्षपक्षीकरणस्योपलक्षणत्वेन विपक्षसपक्षयोः पक्षीकरणं दार्टान्तिकं, रजतस्य शुक्तिकोपलक्षकत्वं दृष्टान्तः, तत्र च यद्रजतमभात् सैषा शुक्तिरित्येवं रजतं विशेषणभूतं सत् शुक्तिकां गमयति, पक्षपक्षीकरणं चोपलक्षणत्वेन विपक्षसपक्षयोः पक्षीकरणं गमयतीत्यतो दृष्टान्तदाान्तिकयोः वैषम्यमिति न च वाच्यम् । विशेषणस्य विद्यमानत्वव्याप्तत्वादिति । विशेषणस्य विद्यमानत्वेन व्यापकेन व्याप्तत्वात् । " सर्वदा संबद्धं व्यावर्तकं विद्यमानं विशेषणमि"ति तल्लक्षणात् । व्याप्यत्वं च यद्यद्विशेषणं तत्तद्विद्यमानमिति तयोर्व्याप्तिसद्भावादित्यर्थः । विद्यमानत्वव्यापकनिवृत्तौ निवर्तनादिति । विद्यमानत्वस्य व्यापकस्य निवृत्ती विशेषणस्य व्याप्यस्य निवर्तनात् । विद्यमानत्वं हि व्यापकं रजतादेनिवृत्तं सत् विशेषणत्वमपि रजतादेनिवर्तयति। तस्माद्रजतादिकमुपलक्षणत्वेनैव स्वीकार्य, न तु विशेषणत्वेन । उपलक्षणं वा अविद्यमानमपि स्यात् , न तु विशेषणम् । तस्माद्रजतादिवदुपलक्षणत्वेन विपक्षसपक्षयोः पक्षीकरणं युक्तमेवेत्यर्थः ।
( अथ प्रथमानुमानम् ।) तत्र प्रथमं तावत् शब्दानित्यत्वानुमानम् । तत्रापि तस्यानुमानस्य संग्राहकः श्लोको यथा-अपक्षेति ।
१ पपत्तेः । लि इति क पुस्तकपाठः। २ विद्यमानव्या इति ख पुस्तकपाठः । ३ टान्धीलिष्य इति त पुस्तकपाठः । ४ परमत्र इति त पुस्तकपाठः । ५ गमयति । अतों इति ध पुस्तकपाठः।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247