Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
४१० ]
स्वोपज्ञोणादिगण सूत्रविवरणम्
[ सूत्र-४६६-४७३
मनोज्ञः । तुस शब्दे, तोसलाः जनपद: । कुसच् श्लेषे, कोशला - जनपदः । अनक् प्राणने, अनलः अग्निः । द्रम गतौ, द्रमलं जलम् ॥ ४६५ ।।
नहि-लङ्गेदीर्घश्च ।। ४६६ ।
आभ्याम् अलः प्रत्ययो भवत्यनयोश्च दीर्घो भवति । नहींच् बन्धने नाहल : म्लेच्छ । लगु गतौ लाङ्गलं - हलम् ।। ४६६ ।
ऋ - जनेर्गोऽन्तश्च ॥ ४६७ ॥
आभ्याम् अलः प्रत्ययो गकारश्चान्तो भवति । ऋक् गतौ, अर्गला - परिघः । जनैचि प्रादुर्भावे, जङ्गलं निर्जलो देश: ।। ४६७ ।।
तृपि वपि कुपि - कुशि-कुटि - वृषि- मुसिभ्यः कित् ॥ ४६८ ॥
एभ्यः कि अलः प्रत्ययो भवति । तृपौच्प्रीतौ, तृपला-लता, तृपलं - शुष्क पर्णं, sri | डुव बीजसंताने, उपलः - पाषाणः । कुपच् कोपे, कुपल: प्रवाल: । कुशच् श्लेषणे, कुशल:- मेधावी । कुशलम् आरोग्यम् । कुटत् कौटिल्ये कुंटल - ऋषिः । वृषू सेचने, वृषलः- दासजातिः । मुसच् खण्डने, मुसलम् अवहननम् ।। ४६८ ।।
कोर्वा ॥ ४६६ ॥
कुंङ शब्दे इत्यस्माद् अलः, स च प्रत्ययो किद्वा भवति । कुवलं- बदरम् कुवलीक्षुद्रबदरी, कवल: ग्रासः ।। ४६९ ।।
,
शमे च वा ॥ ४७० ॥
शमूच् उपशमे, इत्यस्माद् अल: प्रत्ययो भवति मकारस्य च बकारो वा भवति । शबल:- कल्माषः, शमलं पुरीषम्, दुरितं च ।। ४७० ।।
छोर्डग्गादिर्वा ॥ ४७१ ॥
छोच् छेदने इत्यस्मात् किद् अलः प्रत्ययो भवति । स च डगांदिर्गादिर्वा भवति । छगल:-छागः, छागल:- ऋषिः । छलं - वचनविघातोऽर्थविकल्पोपपत्त्या ।। ४७१ ।।
सृजि-खन्याहनिभ्यो डित् ॥ ४७२ ॥
एभ्यः डि अल. प्रत्ययो भवति । मृजीक् शुद्धो मलं बाह्य रजः - अन्तर्दोषश्च । खनूग् अवदारणे, खलः दुर्जनः, निष्पीडितरसं पिण्याकादि, खलं- सस्यफलग्रहणभूमिः । हनंक हिंसागत्योः, आङपूर्व:, आहल:- विषाणं, नखरश्च ।। ४७२ ।।
स्थो वा ।। ४७३ ॥
तिष्ठतेः अलः प्रत्ययो भवति, स च डिद्वा भवति । स्थलं प्रदेश विशेषः । स्थालंभाजनम् ।। ४७३ ।
Loading... Page Navigation 1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520