Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 488
________________ ४७० ] स्वोपज्ञोणादिगणसूत्रविवरणम् [सूत्र-९३१-६४० आपः क्विप् ह्रस्वश्च ॥ ६३१॥ आप्लुट् व्याप्ती, इत्यस्मात् विवप् प्रत्ययो भवति, ह्रस्वश्चास्य भवति । आपःअम्भः । स्वभावाद् बहुत्वम् ॥ ६३१ ।। ककुप्-त्रिष्टुबनुष्टुभः ॥ ६३२॥ एते क्विप् प्रत्ययान्ता निपात्यन्ते। कपूर्वात् स्कुभ्नातेः सलोपश्च-क-वायु, ब्रह्म च, स्कुभ्नन्तीति ककुभ:-दिशः । कुकुप्-उष्णिक्छन्दः। श्यनुपूर्वात् स्तुभ्नातेः सः षश्च, त्रिष्टुप् छन्दः, अनुष्टुप् छन्दः बहुवचनानिजि-विजि-विषां क्विप शित् , नेनिक्-प्रजापतिः । वेविक्-शुचिः । वेविट-चन्द्रमाः ॥ ६३२ ।। अवेमः ॥ ६३३ ॥ अव रक्षणादौ, इत्यस्माद् मः इत्ययो भवति । अवतीति ओम्-ब्रह्म, प्रणवश्च । ६३३। सोरेतेग्म् ॥ ६३४॥ सुपूर्वाद् इणंक गती, इत्यस्माद् अम् प्रत्ययो भवति । स्वयम्-आत्मना ।। ९३४ ।। नशि-नूभ्यां नक्त-नूनौ च ।। ६३५॥ नशौच अदर्शने, एत् स्तवने, आम्याम् अम् प्रत्ययो भवति, नक्त नून इत्यादेशौ चाऽनयोर्भवतः। नक्तं-रात्रौ । नूनं-वितर्के ।। ९३५ ।। स्यतेर्णित् ॥ ६३६ ॥ _षोंच अन्तकर्मणि, इत्यस्माद् णिद् अम् प्रत्ययो भवति । सायम्-दिवसावसानम् ॥ ९३६ ॥ गमि-जमि-क्षमि-कमि-शमि-समिभ्यो डित् ।। ६३७ ॥ एभ्यो डिद् अम् प्रत्ययो भवति । गम्लु गती, गम् । जमू अदने, जम् । क्षमौषि सहने, क्षम्-एतानि भार्यानामानि । कमूङ कान्तो, कम्-पानीयम् । शमूच उपशमे, शम्सुखम् । षम वैक्लव्ये, सम्-संभवति ।। ६३७ ॥ इणो दमक् ॥ ६३८॥ इणक् गतो, इत्यस्मात् कित् दम् प्रत्ययो भवति । इदम् प्रत्यक्षनिर्देशे ।। ६३८ ।। कोर्डिम् ॥ ६३६ ॥ कुंङ, शब्दे, इत्यस्माद् डिद् इम् प्रत्ययो भवति । किम्-अनेनाविज्ञातं वस्तु पर्यनुयुज्यते ॥ ६३९ ॥ तूपेरीम् णोऽन्तश्च ॥ ६४०॥ तूष तुष्टी, इत्यस्माद् ईम् प्रत्ययो भवति, णकारश्चास्यान्तो भवति । तूष्णीम्वाङ नियमे ।। ९४० ।।

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520