Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 479
________________ सूत्र-८६०-६६८] स्वोपशोणादिगणसूत्रविवरणम् [४६१ जाया मिगः॥८६॥ जाशब्दपूर्वाद् डुमिन्ट प्रक्षेपणे, इत्यस्मात् तृः प्रत्ययो भवति । बायां-प्रजायां, मिन्वन्ति तमिति जामाता-दुहितृपतिः ।। ८६० ॥ आपोऽप् च ॥ ८६१ ॥ आप्लट् व्याप्ती, इत्यस्मात् तृः प्रत्ययो भवति । अप् चास्यादेशो भवति । अप्तायज्ञः, अग्निश्च ।। ८६१ ॥ नमेः प च ।। ८६२॥ __णमं प्रह्वत्वे, इत्यस्माद् तृः प्रत्ययो भवति, पश्चास्यान्तादेशो भवति । नप्तादुहितुः, पुत्रस्य वा पुत्रः ।। ८६२ ।। हु-पुग्-गोत्री-प्रस्तु-प्रतिह-प्रतिप्रस्थाभ्य ऋत्विजि ॥ ८६३ ॥ : एभ्य ऋत्विज्यभिधेये तृः प्रत्ययो भवति । हुंक् दानादनयोः, होता। पूग्श् पवने, पोता । में शब्दे, णोंग-प्रापणे उत्पूर्वः, उद्गाता, उन्नेता। ष्टुंग्क् स्तुती, प्रपूर्व:-प्रस्तोता। हूंग् हरणे प्रतिपूर्वः, प्रतिहर्ता । ष्ठां गतिनिवृत्ती, प्रतिप्रपूर्वः, प्रतिप्रस्थाता। एते ऋत्विजः ॥ ८६३ ॥ नियः पादिः ।।८६४॥ ___णींग प्रापणे, इत्यस्मात् षकारादिः तृः प्रत्ययो भवति । ऋत्विज्यभिधेये । नेष्टाऋत्विक् ।। ८६४ ॥ त्वष्ट्र-क्षत्त-दुहित्रादयः ॥ ८६५ ॥ एते तृप्रत्यायान्ता निपात्यन्ते । त्विषेरितोऽच्च । त्वष्टा देववर्धकिः, प्रजापतिः, आदित्यश्च । क्षद खदने सौत्रः, क्षत्ता-नियुक्तः, अविनीतः, दोवारिकः, मुसलः, पारशवः, रुद्रः, सारविश्च । दुहेरिट किच्च, दुहिता-तनया । आदिग्रहणादन्येऽपि ।। ८६५ ।। रातेः ॥ ८६६॥ रांक् दाने, इत्यस्माद् डिद् ऐः प्रत्ययो भवति । राः द्रव्यम् । रायो, रायः १८६६। घु-गमिभ्यां डोः ॥८६७॥ आभ्यां डिद् ओः प्रत्ययो भवति । झुक् अभिगमे, द्यौः-स्वर्गः, अन्तरिक्षं च । गम्लु गतौ, गौः-पृथिव्यादिः ।। ८६७ ।। ग्ला-नुदिभ्यां डौः ॥ ८६८ ॥ आभ्यां डिद् औः प्रत्ययो भवति । ग्लै हर्षक्षये, ग्लो:-चन्द्रमाः, व्याषितः, शरीर. ग्लानिश्च । णुदंत् प्रेरणे, नो:-जलतरणम् ॥ ८६८ ॥

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520