Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 480
________________ ४६२ ] स्वोपशोणादिगणसूत्रविवरणम् सूत्र-८६६-८७७ तोः किक् ॥ ८६६ ॥ तुंक् वृत्त्यादी, इत्यस्मात् किक् प्रत्ययो भवति । ककारः कित् कार्यार्थः, इकार उच्चारणार्थः, तुक्-अपत्यम् ।। ८६९ ॥ द्रागादयः ॥ ८७०॥ द्राक् इत्यादयः शब्दाः किक् प्रत्ययान्ता निपात्यन्ते, द्रवतेरा च । द्राक-शीघ्रम् । एवं सरतेः स्राक् स एवार्थः । इयर्तरर्वादेशश्च, अर्वाक्-अचिरन्तनम् । आदिग्रहणादन्येपि ।। ८७०॥ स्रोश्विक् ॥ ८७१॥ स्र गती, इत्यस्मात् चिक् प्रत्ययो भवति । स क्जुहू-प्रभृति अग्निहोत्रभाण्डम् । स्र चौ । स चः । इकार उच्चारणार्थः । ककारः कित्कार्यार्थः ।। ८७१ ।। तनेड्वच ॥ ८७२॥ तनूयी विस्तारे इत्यस्माद् डिद् वच् प्रत्ययो भवति । त्वक्-शरीरादिवेष्टनम् ॥८७२ ॥ पारेरज् ॥ ८७३॥ पारण कर्मसमाप्ती, इत्यस्मादप्रत्ययो भवति । पारक् शाकविशेषः, प्राकारः, सुवर्ण, रत्नं च । पारजी, पारजः ॥ ८७३ ।। ऋधि-पृथि-भिषिभ्यः कित् ॥ ८७४ ॥ एभ्यः किद् अजप्रत्ययो भवति । ऋषौच वृद्धी, ऋधक-समीपवाचि अध्ययम् । प्रथिष् प्रख्याने, निर्देशादेव वृत् । पृथग् नानार्थेऽव्ययम् । भिष् सौत्रः, भिषक्-वैद्यः, भिषजौ, भिषजः॥ ८७४ ॥ भृ-पणिभ्यामिपुर-वणौ च ॥ ८७५॥ भृ-पणिभ्यामिप्रत्ययो यथासंख्यं भुर वण इत्यादेशो भवत: । भृग भरणे, भुरिक्-बाहुः, शब्दः, भूमिः, वायुः, एकाक्षराधिकपादं च ऋक्छन्दः । पणि व्यवहारस्तुत्योः, वणिक-वैदेहिकः ॥ ८७५ ॥ वशेः कित् ॥ ८७६ ॥ वशक् कान्ती, इत्यस्मात् किद् इज् प्रत्ययो भवति । उशिक्-कान्तः, उशीरम् , अग्निः, गौतमश्च ऋषिः ।। ८७६ ॥ लङघरट् नलुक् च ॥ ८७७ ॥ लघुङ गतो, इत्यस्माद् अट्प्रत्ययो भवति, नलोपश्चास्य भवति । लघट्-वायुः, लघु च शकटम् ॥ ८७७॥

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520