SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ४१० ] स्वोपज्ञोणादिगण सूत्रविवरणम् [ सूत्र-४६६-४७३ मनोज्ञः । तुस शब्दे, तोसलाः जनपद: । कुसच् श्लेषे, कोशला - जनपदः । अनक् प्राणने, अनलः अग्निः । द्रम गतौ, द्रमलं जलम् ॥ ४६५ ।। नहि-लङ्गेदीर्घश्च ।। ४६६ । आभ्याम् अलः प्रत्ययो भवत्यनयोश्च दीर्घो भवति । नहींच् बन्धने नाहल : म्लेच्छ । लगु गतौ लाङ्गलं - हलम् ।। ४६६ । ऋ - जनेर्गोऽन्तश्च ॥ ४६७ ॥ आभ्याम् अलः प्रत्ययो गकारश्चान्तो भवति । ऋक् गतौ, अर्गला - परिघः । जनैचि प्रादुर्भावे, जङ्गलं निर्जलो देश: ।। ४६७ ।। तृपि वपि कुपि - कुशि-कुटि - वृषि- मुसिभ्यः कित् ॥ ४६८ ॥ एभ्यः कि अलः प्रत्ययो भवति । तृपौच्प्रीतौ, तृपला-लता, तृपलं - शुष्क पर्णं, sri | डुव बीजसंताने, उपलः - पाषाणः । कुपच् कोपे, कुपल: प्रवाल: । कुशच् श्लेषणे, कुशल:- मेधावी । कुशलम् आरोग्यम् । कुटत् कौटिल्ये कुंटल - ऋषिः । वृषू सेचने, वृषलः- दासजातिः । मुसच् खण्डने, मुसलम् अवहननम् ।। ४६८ ।। कोर्वा ॥ ४६६ ॥ कुंङ शब्दे इत्यस्माद् अलः, स च प्रत्ययो किद्वा भवति । कुवलं- बदरम् कुवलीक्षुद्रबदरी, कवल: ग्रासः ।। ४६९ ।। , शमे च वा ॥ ४७० ॥ शमूच् उपशमे, इत्यस्माद् अल: प्रत्ययो भवति मकारस्य च बकारो वा भवति । शबल:- कल्माषः, शमलं पुरीषम्, दुरितं च ।। ४७० ।। छोर्डग्गादिर्वा ॥ ४७१ ॥ छोच् छेदने इत्यस्मात् किद् अलः प्रत्ययो भवति । स च डगांदिर्गादिर्वा भवति । छगल:-छागः, छागल:- ऋषिः । छलं - वचनविघातोऽर्थविकल्पोपपत्त्या ।। ४७१ ।। सृजि-खन्याहनिभ्यो डित् ॥ ४७२ ॥ एभ्यः डि अल. प्रत्ययो भवति । मृजीक् शुद्धो मलं बाह्य रजः - अन्तर्दोषश्च । खनूग् अवदारणे, खलः दुर्जनः, निष्पीडितरसं पिण्याकादि, खलं- सस्यफलग्रहणभूमिः । हनंक हिंसागत्योः, आङपूर्व:, आहल:- विषाणं, नखरश्च ।। ४७२ ।। स्थो वा ।। ४७३ ॥ तिष्ठतेः अलः प्रत्ययो भवति, स च डिद्वा भवति । स्थलं प्रदेश विशेषः । स्थालंभाजनम् ।। ४७३ ।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy