Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 483
________________ सूत्र-८९५-६०२ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ ४६५ समानशब्दः क्षत्रियः। दरदः-जनपदः । भस भर्सन:दीप्त्योः सौत्रः, भसत्-जघनम् , आस्यम् , आमाशयस्थानं च । भषेरपीच्छन्त्येके भषत् ।। ८९४ ।। तनि-त्यजि-यजिभ्यो डद् ॥ ८६५ ॥ एभ्यो डिद् अद्प्रत्ययो भवति । तनूयी विस्तारे, तत् , सः । त्यजं हानी, त्यद, स्यः । एतौ निर्देशवाचिनौ । यजी देवपूजादौ, यद्, यः । अयमुद्देशवाची ।।८९५॥ इणस्तद् ॥ ८६६ ॥ इणं गतो, इत्यस्मात् तद् प्रत्ययो भवति । एतद्-एषः, समीपवाची शब्दः ।८९६॥ प्रः सद् ॥ ८१७॥ पृश् पालनपूरणयोः, इत्यस्मात् सद् इत्येवं प्रत्ययो भवति । पर्षत् सभा ।। ८९७।। द्रो हुस्वश्च ॥ १८॥ दृश् विदारणे, इत्यस्मात् सद् प्रत्ययो भवति । ह्रस्वश्चास्य भवति, दृषत्-पाषाणः ॥ ८९८॥ युष्यसिम्यां क्मद् ॥ ८६६ ॥ आभ्यां किद् मद् इत्ययं प्रत्ययो भवति । युषः सौत्रः सेवायाम् , युष्मद् , यूयम् । असूच क्षेपणे, अस्मद्-वयम् ॥८९९ ।। उक्षि-तक्ष्यक्षीशि-राजि-धन्वि-पश्चि-पूषि-क्लिदि-स्निहि नु-मस्जेरन् ॥१०॥ एभ्यः अन् प्रत्ययो भवति । उक्ष सेचने उक्षा-वृषः । तक्षौ तनूकरणे, तक्षावर्धकिः। अक्षौ व्याप्तौ च. अक्षा-दृष्टिनिपातः । ईशिक ऐश्वर्य, ईशा-परमात्मा। राजग दीप्तौ, राजा-ईश्वरः । धन्विः सौत्रो गतौ, धवु गतौ वा, धन्वा-मरुः, धनुश्च । पचुङ व्यक्तीकरणे, पञ्च संख्या। पूष वृद्धी, पूषा-आदित्यः। क्लिदोच आर्द्रभावे, क्लेदा-मुखप्रसेकः, चन्द्रः, इन्द्रश्च । ष्णिहौच प्रीती। स्नेहा-स्वाङ्गम् , हृत् , वशा च गौः। णुक स्तुतौ नव-संख्या । टुमस्जोंत् शुद्धौ, मज्जा-षष्ठो धातुः ।। ६०० ॥ • लू-पू-यु-वृषि-दंशि-धु-दिवि-प्रतिदिविभ्यः कित् ॥६०१ ॥ . एभ्यः किद् अन् प्रत्ययो भवति । लुग्श् छेदने, लुवा-दात्रं, स्थावरश्च । पूग्श पवने, पुवा-वायुः । युक् मिश्रणे, युवा-तरुणः । वृषू सेचने, वृषा-इन्द्रः, वृषभश्च । दंशं दशने, दश-संख्या । छुक् अभिगमे, धुवा-अभिगमनीयः, राजा सूर्यश्च । दिवूच् क्रीडादौ, दिवादिनम् । प्रतिपूर्वात् प्रतिदिवा-अहः अपराह्णश्च ।। ६०१॥ श्वन-मातरिश्वन-मूर्धन्-प्लीहन्नर्यमन्--विश्वप्सन परिज्वन्-महन्नहन मघवन्नर्थवनिति ॥ ६०२॥

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520