Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 442
________________ ४२४ ] स्वोपज्ञोणादिगणसूत्र विवरणम् [ सूत्र -५६८- ५७२ भल्लः । रिष हिंसायाम्, रिक्षा-यूकाण्डम् लत्वे लिक्षा सैव । कुष्ा निष्कर्षे, कुक्ष:- गर्भः, कुक्षं गर्तः । कृतैत् छेदने, कृत्सः - गौत्रकृत्, ओदनं, वक्त्रं, दुःखजातं च । ओव्रश्चात् छेदने, वृक्षः - पादपः । उन्दै क्लेदने, उत्सः समुद्रः, आकाश, जल, जलाशयश्च, उत्सं-स्रोतः । शृशु हिंसायाम्, शीर्ष - शिरः ।। ५६७ ।। 1 गुधि-गृधेस्त च ॥ ५६८ ॥ आभ्यां कितु सः प्रत्ययस्तकारश्चान्तादेशो भवति । गुधच् परिवेष्टने, गुत्स:रोषः, तृणजातिश्च । गृधूच् अभिकाङक्षायाम्, गृत्स:- विप्रः, श्वा, गृध्रः, अभिलाषश्च । तकारविधानमादिचतुर्थबाधनार्थम् ।। ५६८ ।। तयणि-पन्यल्य वि-रधि-नभि-नम्यमि चमि तमि चट्यति - पत्तेरसः || ५६६ ॥ एभ्योऽस: प्रत्ययो भवति । तपं संतापे, तपसः- आदित्यः पशुः, धर्म:, धर्मश्च । अण शब्दे, अणसः शकुनिः । पनि स्तुती, पनसः फलवृक्षः । अली भूषणादौ, अलसः - निरुत्साहः । अव रक्षणादौ, अवस: - भानुः, राजा च । अवसं चापं, पाथेयं च । रधौच् हिंसा-संराध्योः, रध इटि तु परोक्षायामेव इति नागमे, रन्धसः-अन्धकजातिः । भच् हिंसायाम्, नभसः - ऋतुः, आकाशः, समुद्रश्च । णमं प्रह्वत्वे, नमसः - वेत्रः, प्रणामश्च । अम गतौ, अमसः कालः, आहारः, संसारः, रोगच । चमू अदने, चमस:सोमपात्रम्, मन्त्रपूतं, पिष्टं च । चमसी मुद्गादिभित्तकृता । तमूच् आङ्क्षायाम्, तमसः अन्धकारः, तमसा नाम नदी । चटण् भेदे, चटसः चर्मपुटः । अत सातत्यगमने, अतसःवायुः, आत्मा, वनस्पतिश्च, अतसी- ओषधिः । पत्लृ गतौ, पतसः पतङ्गः ।। ५६९ ।। सृ-वयिभ्यां णित् ।। ५७० ॥ आभ्यां णिद् असः प्रत्ययो भवति । सृ गतौ, सारसः - पक्षिविशेषः । वयि गतौ, वायसः - काकः ।। ५७० ।। वहि-युभ्यां वा ॥ ५७१ ।। आभ्याम् असः प्रत्ययः, स च णिद्वा भवति । शकटम्, अजगर, वहनजीवश्च । वहसः अनड्वान् भक्तम्, तृणम्, मित्रं च यवसम् - अश्वादिघासः, अन्नं वहीं प्रापणे, वाहसः - अनड्वान्, शकटश्च । युक् मिश्रणे, यावसंच ।। ५७१ ।। दिवादि-रभि लभ्युरिभ्यः कित् ।। ५७२ ।। दिवादिभ्यो रभि लभ्युरिभ्यश्व किद् असः प्रत्ययो भवति । दीव्यतेः दिवस:वासरः । व्रोड्यतेः लत्वे, व्रीलसः - लज्जावान् । नृत्यतेः नृतसः- नर्तक । क्षिप्यतेः, क्षिपसः - योद्धा । सीव्यतेः, सिवस :- श्लोकः, वस्त्रं च । श्रीव्यतेः श्रिवसः - गतिमान् । इष्यतेः, इषसःइष्वाचार्यः । रभि राभस्ये, रभसः संरम्भः, उद्धर्षः, अगम्भीरश्च । डुलभिष् प्राप्ती, लभस:याचकः, प्राप्तिश्च । उरिः सौत्रः, उरसः ऋषिः ।। ५७२ ।।

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520