Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 481
________________ सूत्र ८७४-८८५ ] स्वोपज्ञोणादिगणसूत्र विवरणम् [ ४६३ सर्तेरड् ॥ ८७८ ॥ सृ गतौ, इत्यस्मादप्रत्ययो भवति । सरड्वृक्ष विशेष:, मेघः, उष्ट्रजातिश्च । ८७८ | ईडेरविड् ह्रस्वश्च ॥ ८७६॥ ईडिक् स्तुती, इत्यस्माद् अविप्रत्ययो भवति, ह्रस्वश्चास्य भवति । इडविट्विश्रवाः ।। ८७९ ।। विपि म्लेच्छ्थ वा ॥ ८८० ॥ म्लेच्छेरीडैश्च क्विपि प्रत्यये वा ह्रस्वो भवति । अत एव वचनात् क्विप् च । म्लेच्छ अव्यक्ते शब्दे, म्लेट् म्लिट्-उभयं म्लेच्छजातिः । इंटू ईट् - स्वामी, मेदिनी च ।। ८५० ।। तृपेः कत् ॥ ८८१ ॥ तृपौच् प्रीतो, इत्यस्मात् किदु अत्प्रत्ययो भवति । तृपत्- चन्द्रः समुद्रः, तृणभूमिश्च ।। ८८१ ।। संश्वद्-वेहत- साक्षादादयः ॥ ८८२ ॥ एते कत्प्रत्ययान्ता निपात्यन्ते । संपूर्वाच्चिनोतडित् समो मकारस्यानुस्वारपूर्वः शकारश्च । संश्चत् अध्वर्यु:, कुहकश्च । अनुस्वारं नेच्छन्त्येके, संश्चत्- कुहकः । विपूर्वाद्धन्तेश्च गुणः, विहन्ति गर्भमिति वेहतु - गर्भघातिनी अप्रजाः, स्त्री, अनड्वांश्च । संपूर्वादीक्षतेः साक्षाभावश्च साक्षात् समक्षमित्यर्थः । आदिग्रहणाद् रेहत्, वियत्, पुरीतदादयोऽपि ।। ८८२ ।। . पटच्छपदादयोऽनुकरणाः ॥ ८८३ ॥ पटदित्यादयोऽनुकरणशब्दा: कत्प्रत्ययान्ता निपात्यन्ते । पट गतो, पटत् छुपत् संस्पर्शे उकारस्याकारश्च । छपत् । पत्लृ गतौ, पतत् । शृश् हिंसायाम्, शरत् । शल गतौ शत् । खुट काङक्षे, खटत् । दहेः प च, दपत् । डिपेः डिपत् खनतेरश्च, खरत् । खादतेः खादत्, सर्व एते कस्यचिद्विशेषस्य श्रुतिप्रत्यासत्त्याऽनुकरणशब्दाः । अनुकरणमपि हि साध्वेव कर्तव्यम्, न यत्किञ्चित्, यथाऽनक्ष रमिति शिष्टाः स्मरन्ति ॥ ८८३ ॥ दुहि वृहि महि - पृषिभ्यः कतुः ॥ ८८४ ॥ एम्य: किद् अतृः प्रत्ययो भवति । द्रुहौच् जिघांसायाम्, द्रुहन्- ग्रीष्मः, वृह वृद्धी, वृहन - प्रवृद्धः, बृहती छन्दः । मह पूजायाम्, महान् - पूजितः, विस्तीर्णश्च । महान्ती, महान्तः, महती | पृष् सेचने, पृषत्-तन्त्र, जलबिन्दु:, चित्रवर्णजातिः, दध्युपसिक्तमाज्यं च । पृषती मृगी । स्थूलपृषतिमालभेत । ऋकारो ङयाद्यार्थः ।। ८८४ ॥ गमेद्द्वेि च ॥ ८८५ ॥

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520