Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
सूत्र-४९७-५०४ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[४१५
+
मिगः खलश्चैश्च ॥ ४६॥
अपणे, इत्यस्मात् खलश्चकारात् कलश्च प्रत्ययौ भवतः, एकारश्चान्तादेशो भवति । मेखला-गिरिनितम्बः, रशना च । मेकलः-नर्मदाप्रभवोऽद्रिः । मिग एत्ववचनामात्वबाधनार्थम् ॥ ४६७ ॥
श्व ॥४८॥ शश् हिंसायाम् , इत्यस्मात् खलः प्रत्ययो भवति, नकारोऽन्तो ह्रस्वश्च भवति । शृङ्खला लोहरज्जुः, शृङ्खलः शृङ्खलं वा ।। ४९८ ।।
शमि-कमि-पलिभ्यो बलः ।। ४६ ॥
एभ्यो बलः प्रत्ययो भवति । शमूच उपशमे शम्बल-पाथेयम् । कमूङ कान्ती, कम्बलः-ऊर्णापटः । पल गती, पल्वलम् अकृत्रिमोदकस्थानविशेषः ।। ४६६ ।।
तुल्वलेल्पलादयः॥ ५००॥
तुल्वलादयः शब्दा वलप्रत्यान्ता निपात्यन्ते । तुलील्योणि-लुग्गुणाभावश्च । तुल्वलः-ऋषिः, यस्य तौल्वलिः पुत्रः । इल्वलः-असुरः, योऽगस्त्येन जग्धः, मत्स्यः, यूपश्च । इल्वला:-तिस्रो मृगशिरःशिरस्ताराः । आदिग्रहणात् शाल्वलादयो भवन्ति ।। ५०० ।।
शीङस्तलक्पाल-वालण-वलण-वलाः ॥ ५०१ ॥
शीङ्क् स्वप्ने, इत्यस्मात् तलक-पाल-वालण्-वलण वल इत्येते प्रत्यया भवन्ति । शीतलं-अनुष्णम् , शेपालम् , जपादित्वात् पस्य वत्वे शेवालम् , शैवालम् , शैवलम् , शेवलं पञ्चकमपि जलमलवाचि ॥ ५०१ ।।
रुचि-कुटि-कुषि-कशि-शालि-द्रभ्यो मलक् ।। ५०२॥
एभ्यः किन् मलःप्रत्ययो भवति । रुचि अभिप्रीत्यां च, रुक्मलं-सुवर्णम् , न्यङ क्वादित्वात् कत्वम् । कुटत् कौटिल्ये, कुट्मलम् मुकुलम् । कुष्श् निष्कर्षे, कुष्मलं तदेव, बिलं च । कश शब्दे तालव्यान्तः, कश्मलं-मलिनम् । शाडङ श्लाघायाम् , लत्वे शाल्मल:वृक्षविशेषः । दूं गतौ, द्रुमलं-जलं, वनं च ।। ५०२ ।।
कुशि-कमिभ्यां कुल-कुमौ च ।। ५०३ ॥
आम्यामलक् प्रत्ययो भवति । अनयोश्च यथासंख्यं कुल-कुम इत्यादेशौ च । कुश्च श्लेषणे, कुल्मलं-छेदनम् । कमूङ कान्तौ, कुम्मलं-पद्मम् ।। ५०३ ।।
पतेः सलः ॥ ५०४॥
पत्लु गती, इत्यस्मात् सलः प्रत्ययो भवति । पत्सलः-प्रहारः, गोमान् , आहारश्च ।। ५०४॥
Loading... Page Navigation 1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520