Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
४५६ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
-८१४-८२४
उरादेरुदेतौ च ॥ ८१४॥
उर्वै हिंसायाम् , इत्यस्मादारुः प्रत्ययो भवति, आदेश्च ऊकार-एकार आदेशौ भवतः । ऊर्वत्याति मिति ऊर्वारु:-कटुचिर्भटी। एर्वारु:-चारुचिर्भटी।। ८१४ ।।
कृपि-क्षुधि-पी-कुणिभ्यः कित् ॥ ८१५ ॥
एभ्यः किदारुः प्रत्ययो भवति । कृपौङ सामर्थ्य, कृपारु:-दयाशीलः । क्षुधंच बुभुक्षायाम् , क्षुधारु:-क्षुधमसहमानः, लत्वे कृपालुः, क्षुधालुः । पीङ च पाने । पियारु:वृक्षः । कृणत् शब्दोपकरणयोः, कुणारु:-वनस्पतिः ।। ८१५ ।।
श्यः शीत च ॥ ८१६॥
श्यैङ गतो, इत्यस्माद् आरुः प्रत्ययो भवति । अस्य च शीत इत्यादेशो भवति । शीतारु:-शीतासह , लत्वे शीतालुः ॥ ८१६ ॥
तुम्बेरुरुः ॥ ८१७ ॥ तुबु अर्दने, इत्यस्मादुरुः प्रत्ययो भवति । तुम्बुरु:-गन्धर्वः, गन्धद्रव्यं च ।। ८१७ ।। कन्देः कुन्द् च ॥८१८ ॥
कदु रोदनाह्वानयोः, इत्यस्माद् उरुः प्रत्ययो भवत्यस्य च कुन्द् इत्यादेशो भवति । कुन्दुरुः-सल्लकोनिर्यासः।। ८१८॥
चमेरूरुः ॥ ८१६॥ चमू अदने, इत्यस्माद् ऊरु: प्रत्ययो भवति । चमूरु:-चित्रकः ।। ८१९ ॥ शीडो लुः ॥ ८२०॥ शीङक् स्वप्ने, इत्यस्माद् लुः प्रत्ययो भवति । शेलुः-श्लेष्मातकः ।। ८२० ।। पीङः कित् ॥ ८२१ ॥ पोङ च पाने, इत्यस्मात् कित् लुः प्रत्ययो भवति । पीलुः-हस्ती, वृक्षश्च ।।८२१।। लस्जीष्यि-शलेरालुः ॥ २२ ॥
एभ्य आलुः प्रत्ययो भवति । ओलस्जैति तोडे, लज्जालु:-लज्जनशीलः। ईर्घ्य इर्थिः , ईष्यालुः-ईर्ष्याशीलः । शल गतौ, शलालुः-वृक्षावयवः ।। ८२२ ।।
आपोऽप् च ॥ ८२३ ॥
आप्लृट् व्याप्ती, इत्यस्मादालुः प्रत्ययो भवत्यस्य च अप् इत्यादेशो भवति । अपालु:-वायुः ।। ८२३ ॥
गृहलु-गुग्गुलु-कमण्डलवः ।।८२४ ॥ एते आलुप्रत्ययान्ता निपात्यन्ते । गूहतेह्रस्वश्च प्रत्ययादेः, गूहलु:-ऋषिः । गुंङ,
Loading... Page Navigation 1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520