Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
सूत्र-७५५-७६४ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ ४४९
शलेरकुः ॥ ७५५॥ शल गतो, इत्यस्मात् अङ कुः प्रत्ययो भवति । शलङ कु:-ऋषिः ।। ७५५ ॥ सु-पृभ्यां-दाकुक् ॥ ७५६ ॥
आभ्यां किद् दाकुः प्रत्ययो भवति । सृगतो, सदाकु:-दावाग्निः, वायुः, आदित्यः, व्याघ्रः, शकुनिः, अस्तः, भर्ता, गोत्रकृच्च । पृक् पालनपूरणयोः, पृदाकुः- सर्पः, गोत्रकृच्च ।।७५६ ।।
इषेः स्वाकुक च ।। ७५७।।
इषत् इच्छायाम् , इत्यस्मात् कित् स्वाकः प्रत्ययो भवति । इक्ष्वाकुः-आदिक्षत्रियः ॥ ७५७ ॥
फलि-वल्यमेगुः ॥ ७ ॥
एभ्यो गुः प्रत्ययो भवति । फल निष्पत्ती, फल्गु-असारम् । वलि संवरणे, वल्गुमधुरम् , शोभनं च, वल्गुः-पक्षी । अम गतो, अङ गु:-शरीरावयवः ।। ७५८ ॥
दमेलुक् च ॥ ७५६ ॥ ___ दमूच् उपशमे, इत्यस्माद् गुः प्रत्ययो भवत्यन्त्यस्य च लुम् भवति । दगु:ऋषिः ॥ ७५६ ॥
होर्हिन च ॥ ७६०॥
हिंट् गतिवृद्ध्योः , इत्यस्माद् गुः प्रत्ययो भवत्यस्य च हिन् इत्यादेशो भवति । हिङ गु:-रामठः ।। ७६०॥
प्री-कै-पै-नीलेङ्गुक् ॥ ७६१ ॥
एभ्य किद् अङ गुः प्रत्ययो भवति । प्रींग्श् तृप्तिकान्त्योः, प्रियङ गुः-फलिनी, रालकश्च । के शब्दे, कङ गुः-अणुः । पैं शोषणे, पङ गु:-खञ्जः । गील वर्णे, नीलङ गु:कृमिजातिः, शृगालश्च ॥ ७६१ ॥
अव्यर्ति-गृभ्योऽटुः ।। ७६२ ॥
एभ्योऽटुः प्रत्ययो भवति । अव रक्षणादो, अवटु:-कृकाटिका । ऋक् गतौ, अरटु:वृक्षः । गृत् निगरणे, गरटुः-देशविशेषः, पक्षी, अजगरश्च ।। ७६२ ।।
शलेराटुः ।। ७६३ ॥ शल गती, इत्यस्माद् आटुः प्रत्ययो भवति । शलाटुः-कोमलं फलम् ॥ ७६३ ।। अङ्ग्यवेरिष्ठुः ।। ७६४॥
Loading... Page Navigation 1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520