Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 484
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् [ सूत्र-९०३-६०७ एते अन् प्रत्ययान्ता निपात्यन्ते । श्वयतेलुक च, श्वा-कुक्कुरः । मातरि अन्तरिक्षे श्वयति, मातरिश्वावायुः । अत्र 'तत्पुरुषे कृति' इति सप्तम्या अलुप् इकारलोपश्च पूर्ववत् । मूर्छ च, मूर्छन्त्यस्मिन्नाहताः प्राणिन इति, मूर्धा-शिरः । प्लिहे र्दीर्घश्च, प्लीहा-जठरान्तरावयवः । अरिपूर्वादमर्ण्यन्ताद् अरीन् आमयतीति, अर्यमा-सूर्यः । विश्वपूर्वात् प्सातेः कित् च, विश्वप्सा-कालः, वायुः, अग्निः, इन्द्रश्च । परिपूर्वात् ज्वलतेडिच्च परिज्वा-सूर्य, चन्द्रः, अग्निः, वायुश्च । महीयतेरीयलोपश्च महा-महत्त्वम् । अंहेर्नलोपश्च, अंहते अहः-दिवसः । मङघेर्नलोपोऽव् चान्तः मङघते इति, मघवा-इन्द्रः । नम्पूर्वात् खर्वे: खस्थश्च, न खर्वति, अर्थवा-वेद,, ऋषिश्च । इतिकरणादन्येऽपि भवन्ति ।। ९०२ ।। पप्यशोभ्यां तन् ॥ १०३ ॥ आभ्यां तन् प्रत्ययो भवति । पप समवाये, अशोटि व्याप्तौ। सप्त, अष्ट उभेसंख्ये ॥ ९०३ ॥ स्ना-मदि-पद्यति-प-शकिभ्यो वन ॥ ९०४ ॥ एभ्यो वन् प्रत्ययो भवति । ष्णांक शौचे, स्नावाशिरा, नदी च । मदच हर्षे, मद्वादृप्तः, पानं, कान्तिः, क्रीडा, मुनिः, शिरश्च । मद्वरी-मदिरा । बाहुलकाद् डी:, वनोरश्च । पदिच् गती, पद्वा-पत्तिः, वत्सः, रथः, पादः, गतिश्च । ऋक् गतौ, अर्वा-अश्वः, अशनिः, आसनं, मुनिश्च । पृश् पालनपूरणयोः, पर्व-सन्धिः, पूरणं, पुण्यतिथिश्च · शक्लट् शक्तौ, शक्वा-वर्धकिः, समर्थः । शक्वरी-नदी, विद्युत् , छन्दोजातिः, युवतिः, सुरभिश्च । शाक्वरः-वृषः ।। ६०४ ॥ ग्रहेरा च ।। ६०५॥ ग्रहीश उपादाने, इत्यस्माद् वन् प्रत्ययो भवति । आकारश्चान्तादेशो भवति। ग्रावा-पाषाणः, पर्वतश्च ॥ ९०५ ।। ऋ-शी-क्र शि-रुहि-जि-क्षि-ह-सू-धृ-दृभ्यः क्वनिए ।। ६०६ ॥ एभ्यः क्वनिप् प्रत्ययो भवति । ऋक् गतो, ऋत्वा ऋषिः । शोङ क स्वप्ने, शीवा-अजगरः। क्रुशं आह्वान-रोदनयोः, क्रुश्वा-सृगालः । रुहं बीजजन्मनि, रुह्वा-वृक्षः । जि अभिभवे, जित्वा-धर्मः, इन्द्रः, योद्धा च । जित्वरी-नदी, वणिजश्च, वाराणसी जित्वरीमाहुः । क्षि क्षये, क्षित्वा-वायुः, विष्णुः, मृत्युश्च । क्षित्वरी-रात्रिः । हग हरणे, हृत्वारुद्रः, मत्स्यः, वायुश्च । सृ गती, सृत्वा-कालः, अग्निः, वायुः, सर्पः, प्रजापतिः, नीचजातिश्च । सृत्वरी-वेश्यामाता। धृङत् स्थाने, धृत्वा-विष्णुः, शंलः, समुद्रश्च । धृत्वरी-भूमिः । हङत् आदरे, इत्वा-दृप्तः । पकरस्तागमार्थः ।। ९०६ ।। सृजेः सज्-सको च ॥ ६०७ ॥ सृजंत विसर्गे, इत्यस्मात् क्वनिप् प्रत्ययो भवति । स्रज-सृक् इत्यादेशौ चास्य भवतः । स्रज्वा मालाकारः, रज्जुश्च । सृक्वणी-आस्योपान्तौ ।। ९०७ ।।

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520