Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 464
________________ ४४६ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ सूत्र-७३२-७३९ व्यान्तः, पशुः-तिर्यङ, मन्त्रवध्यश्च जनः । भ्रस्जीत् पाके, भृगुः-प्रपातः, ब्रह्मणश्च सुतः । कित्त्वात् 'ग्रह-वश्च भ्रस्ज-प्रच्छ' इति वृत् 'न्यङ कुद्गमेघादय.' इति गत्वम् ।। ७३१ ॥ दुःस्वप-वनिभ्यः स्थः ॥ ७३२॥ दुस् , सु, अप, वनि इत्येतेभ्यः परात् ष्ठां गतिनिवृत्तौ, इत्यस्मात् किद् उः प्रत्ययो भवति । दुष्ठु-अशोभनम् , सुष्ठु-सातिशयम् , अपष्ठु-वामम् , वनिष्ठुः-वपासंनिहितोऽवयवः, अश्वः, संभक्तः, अपानं च ।। ७३२ ।। हनि-या-कृ-भू-प-तृ-तो-द्वे च ॥ ७३३॥ एभ्यः किद् उः प्रत्ययो भवत्येषां द्वे रूपे भवतः । हनंक हिंसागत्योः, जघ्नुः-इन्द्रः, वेगवांश्च । यांक प्रापणे, ययुः-अश्वः, यायावरः, स्वर्गमार्गश्च । डुकृग् करणे, चक्रुःकर्मठः, वैकुण्ठश्च । टुडुभृगक पोषणे च, भृग भरणे वा, बभ्रुः-ऋषिः, नकुलः, राजा, वर्णश्च । पृश् पालनपूरणयोः, पुपुरुः-समुद्रः, चन्द्रः, लोकश्च । त प्लवनतरणयोः, तितिरु:पतङ्गः । त्रैङ पालने, तत्रु:-नौका ।। ७३३ ।। कृ- ऋत उर् च ॥ ७३४ ॥ आभ्यां किद् उ. प्रत्ययो भवति, ऋकारस्य च उर् भवति । कृत् विक्षेपे, कुरु:राजषिः, कुरवः-जनपदः । गृश् शब्दे, गुरुः-आचार्यः, लघुप्रतिपक्षः, पूज्यश्च जनः ।७३४॥ पचेरिश्चातः ॥ ७३५ ॥ डुपची पाके, इत्यस्माद् उः प्रत्ययो भवत्यकारस्य च इकारो भवति । पिचुः- . निरस्थीकृतः कासः ।। ७३५ ॥ अर्तेरूच ॥ ७३६ ॥ ऋक गती, इत्यस्माद् उः प्रत्ययो भवत्यस्य च ऊर् इत्यादेशो भवति । ऊरु:शरीराङ्गम् ॥ ७३६ ॥ महत्युचें ॥ ७३७॥ अर्तेर्महत्यभिधेये उः प्रत्ययो भवत्यस्य च उर् इत्यादेशो भवति । उरु-विस्तीर्णम् ॥ ७३७॥ उद च मे ॥ ७३८॥ अर्तेर्भे नक्षत्रेऽभिधेये उः प्रत्ययो भवति, धातोश्च उडादेशो भवति । उडु-नक्षत्रम् ॥ ७३८॥ श्लिषेः क च ॥ ७३६ ॥ श्लिषच् आलिङ्गने, इत्यस्मात् किद् उ: प्रत्ययो भवति, ककारश्चान्तादेशो भवति । शिलकुः-मृगास्थि, सव्यवसायः, राज्य, ज्योतिष, सेवकश्च ।। ७३९ ।।

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520