Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 472
________________ ४५४ ] स्वोपज्ञोणादिगण सूत्र विवरणम् [ सूत्र- ७९८-८०४ आनन्द:, स्वजन:, रङ्गोपजीवी, प्रियंवदश्च । पुषंच् पुष्टी, पोषयित्नुः - भर्ता, मेघः, कोकिलश्च । घुषण् विशब्दने, घोषयित्नुः - कोकिलः, शब्दश्च । गदण् गर्जे, गदयित्नुः - पर्जन्यः, वावदूकः, भ्रमरः कामश्च । मदैच् हर्षे, मदयित्नुः- मदिरा, सुवर्णम् अलंकारश्च । टुनदु समृद्ध, नन्दयित्नुः पुत्रः, आनन्दः प्रमुदितश्च । गड सेचने, गडयित्नुः - बलाहकः । मडु भूषायाम् मण्डयित्नु :- मण्डयिता, कामुकश्च । जनैचि प्रादुर्भावे, जनयित्नुः- पिता । स्तनण् गर्जे, स्तनयित्नुः - मेघः, मेघगर्जितं च ॥ ७९७ ।। " कस्यर्तिस्यामिपुक् ॥ ७६८ ॥ आभ्यां किद् इपुः प्रत्ययो भवति । कस गतौ, कसिपुः - अशनम् । ऋक् गतौ, रिपुःशत्रुः ।। ७९८ ।। कम्यमिभ्यां बुः || ७६६ ॥ आभ्यां प्रत्ययो भवति । कमूङ कान्तौ, कम्बुः शङ्खः । अम गतौ, बुः यम् ।। ७६ ।। - पानी अम्बु अभ्ररमुः || ८०० || अभ्र गती, इत्यस्यादमुः प्रत्ययो भवति । अभ्रमुः - देवहस्तिनी ।। ८०० ॥ जि- शुन्धि - दहि-दसि - जनि-मनिभ्यो युः ॥ ८०१ ॥ : एम्योः प्रत्ययो भवति । यजीं देवपूजादी, यज्युः अग्नि, अध्वर्यु:, यज्वा, शिष्यश्च । शुन्ध शुद्धौ शुन्ध्युः - अग्निः, आदित्यः पवित्रं च । दहं भस्मीकरणे, दह्य अग्निः । दसूच उपक्षये, दस्युः- चौरः । जनैचि प्रादुर्भावे, जन्युः - अपत्यं, पिता, वायुः, प्रादुर्भावः, प्रजापतिः, प्राणी च । मनिच् ज्ञाने, मन्युः - कृपा, क्रोधः- शोकः, ऋतुश्च ॥ ८०१ | भुजेः कित् ॥ ८०२ ॥ भुजंप् पालनाभ्यवहारयोः, इत्यस्मात् किदु युः प्रत्ययो भवति । भुज्युः - अग्निः, आदित्यः, गरुडः, भोगः, ऋषिश्च ॥ ८०२ ।। सतेंरवन्यू || ८०३ ॥ सृ गतौ, इत्यस्माद् अयु, अन्यु इति प्रत्ययौ भवतः । सरयु ः- नदी वायुश्च । दीर्घान्तमिममिच्छन्त्येके । सरयूः । श्लिष्टनिर्देशात् तदपि संगृहीतमेव । सरण्युः - मेघः, अश्विनोर्माता, समेघो वायुश्च ।। ८०३ ।। भू-क्षिपि चरेरन्युक् ॥ ८०४ ॥ एम्य: किदन्युः प्रत्ययो भवति । भू सत्तायाम्, भुवन्युः - ईश्वरः, अग्निश्च । क्षिपत् प्रेरणे, क्षिपण्युः - वायुः, वसन्तः, विद्युत्, अर्थ:, कालश्च । चर भक्षणे च चरण्युः वायुः ।। ८०४ ।।

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520