Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 416
________________ ३९८ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ सूत्र-३९७-४०१ सुन्दि-मन्थि-मञ्जि-पञ्जि-पिञ्जि-कमि-समि-चमि-चमि-भ्रम्यमि-देवि-वासि-कास्यतिजीवि-बबि-कु-शु-दोररः ॥ ३६७॥ एभ्यः अरः प्रत्ययो भवति । ऋच्छत् इन्द्रियप्रलयमूर्तिभावयोः; ऋच्छर:-त्वरा. वान् , ऋच्छरा-वेश्या, कुलटा, त्वरा, अङ गुलिश्च । चट्ण् भेदे, चटर:-तस्करः । वट वेष्टने, वटर:-मधुकण्डरा । कुटत् कौटिल्ये, कोटरं-छिद्रम् । बाहुलकाद् गुणः । कठ कृच्छ्रजीवने, कठरः-दरिद्रः । वठ स्थौल्ये, वठरः-मूर्खः, बृहदेहश्च । मठ मदनिवासयोश्च, मठर:-ऋषिः, अज्ञानी, गौत्रम् , अलसश्च । अड उद्यमे, अडर:-वृक्ष:-शीकृङ सेचने, शीकर:-जललवसेकः । शोभृङ कत्थने, शीभरः-हस्तिहस्तमुक्तो जललवसेकः । कदिः सौत्रः, कदरः-वृक्षविशेषः। बद स्थैर्ये, बदरी-फलवृक्षः। कदुङ, वैक्लव्ये, कन्दर:-गिरिगर्तः । मदुङ स्तुत्यादौ, मन्दर:- शैलः । सुन्दिः सौत्रः शोभायाम् , सुन्दर:-मनोज्ञ: । मन्थश् विलोडने, मन्थर:-मन्दः, खर्वश्च । मजि-पजी सौत्रौ, मञ्जरी-आम्रादिशाखा । गौरादित्वाद् डोः, पञ्जर:-शुकाधवरोधसद्म । पिजुण-हिंसाबलदाननिकेतनेषु, पिञ्जरःपिशङ्गः । कमूङ कान्तौ, कमरः-मूर्खः, कार्मुकं कोमलः, चौरः, कान्तश्च । षम वैक्लव्ये, समर:-संग्रामः । चमू अदने, चमर:-आरण्यपशुः। टुवम् उगिरणे, वमर:-दुर्मेधाः । भ्रमुच अनवस्थाने, भ्रमरः-षट्पदः । अम गतौ, अमरः-सुरः । देवृङ देवने, देवरःपत्यनुजः । वसं निवासे, णौ वासरः-दिवसः, कामः, अग्निः, प्रावृट् च । अन्ये वाशिच् शब्दे इत्यस्मादपि तालव्यान्तादिच्छन्ति, वाशरः-अग्निः, मेघः, दिवसश्च । कासृङ शब्दकुत्सायाम् , कासरः-महिषः। ऋक् गतौ अरर:-कपाटः, बुधः, भ्रमर, गृहं, हरणं, शलाका च । जीव प्राणधारणे, जीवर:-दीर्धायः। बर्ब गतौ, बर्बर:-म्लेच्छजाति:, बर्बरीकुञ्चिताः केशाः । कुंक शब्दे, कबरः-वर्णः, कबरी-वेणिः । शुं गतो, शबरः-म्लेच्छजातिः । शव गतौ इत्यस्येत्यन्ये । टुदुंट उपतापे, दवर:-गुणः ।। ३६७ ।। अवेध्च वा ॥ ३९८॥ अव रक्षणादौ, इत्यस्माद् अरः प्रत्ययो भवति-धकारश्चान्तादेशो वा भवति । अधरः-हीनः, उपरिभागस्य प्रतियोगी, दन्तच्छदश्च । अवरः-परप्रतियोगी ।। ३९८ ॥ मृयुन्दि-पिठि-कुरि-कुहिभ्यः कित् ॥ ३६६ ॥ एभ्य अरः प्रत्ययः किद् भवति । मृदश् क्षोदे, मृदरः-व्याधिः, अतिकायः, क्षोदश्च । उन्दैप क्लेदने, उदरं-जठरं, व्याधिश्च । पिठ हिंसासंक्लेशयोः, पिठरं-भाण्डम् । कुरत् शब्दे, कुररः-जलपक्षिजातिः । कुहणि विस्मापने, कुहरं-गम्भीरगर्तः ।। ३९९ ।। शाखेरिदेतौ चातः ॥ ४०॥ शाख व्याप्ती, इत्यस्माद् अरः प्रत्ययो भवति, आकारस्य च इकार-एकारौ भवतः । शिखरम्-अग्रम् , शेखरः-आपीडः ।। ४०० ।। शपेः फ च ॥ ४०१॥

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520