Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 116
________________ तन्दुलौचारिकप्रकीर्णकम् [१११ नव छिद्राणि तु नयनद्वयकर्णद्वयनासिकाद्वयजिह्वाशिश्नापानलक्षणानि 'दुरहि'त्ति दुर्गन्धानां पित्तसिंभमूत्रलक्षणानामौषधानामायतनं-गृहं सर्वोषधायतनं, रोगादावस्मिन् सवौषधप्रक्षेपात , सर्वत्र-सर्वभागे दुष्टोऽन्तो-विनाशः प्रान्तो वा यस्य तत् सर्वतोदुरन्तं, 'गुह्यो०' गुह्योरुजानुजङ्घापादसङ्घातसन्धितं-उपस्थसक्थिनलकीलनलकिनीक्रमणपरस्परमीलनसमूहसीवितं, अशुचिकुणिमस्य-अपवित्रमांसस्य गन्धो यत्र तदशुचिकुणिमगन्धि 'एवं चि.' एवं-पूर्वोक्तप्रकारेण चिन्त्यमानं बीभत्सदर्शनीयं भयङ्कररूपं 'अधुवं अनिययं असासयं' चेति पदत्रयस्य व्याख्या पूर्ववत् , 'सडण०' शटनपतनविध्वंसनधर्म, तत्र शटनं-कुष्ठादिनाऽङ्गुल्यादेः पतनं बाहादेः खड्गच्छेदादिना विध्वंसनं-सर्वथा क्षयः एते धर्माः-स्वभावा यस्य तत्तथा, 'पच्छा व पुरा व अवस्स चइयव्वं'त्ति पूर्ववत् 'निच्छ०' निश्चयतः सुष्ठु भृशं त्वं 'जाणं'त्ति जानीहि एतन्मनुष्यशरीरं 'आइनिहणं'ति आदिनिधनं सादिसान्तमित्यर्थः, ईदृशं पूर्ववर्णितं वक्ष्यमाणं वा सर्वमनुजाना-समस्तमनुष्याणां देहः-शरीरं एषः पूर्वोक्तः शरीरस्य परमार्थतः-तत्त्वतः स्वभावः ॥ सूत्रं १७॥ अथ विशेषतः शरीरादेरशुभत्वं दर्शयतिसुक्कंमि सोणियंमि य संभूओजणणिकुच्छिमज्झंमि। तं चेव अमिज्झरसं नवमासे घुटियं संतो ॥ ८५॥

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166