Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 142
________________ तन्दुलनैचारिकप्रकीर्णकम् [ १३७ खोत्पादकत्वात् ६६ दृढवैराः-इह परत्र च दारुणवैरकारणत्वात् ७०। रूपसौभाग्यमदोन्मत्ताः, तत्र रूप-चार्वाकृतिः सौभाग्यंस्वकीर्तिश्रवणादिरूपं मदो-मन्मथजगर्वः ७१ 'भु०' भुजगगतिवत् कुटिलहृदयाः ७२ 'कंता०' कान्तारगतिस्थानभूताः कान्तारे-दुष्टश्वापदाकुले महारण्ये गतिश्च-एकाकित्वेन गमनं स्थानं च-एकाकित्वेन वसनं तयोभूताः-तुल्याः, दारुणमहाभयोत्पादकत्वात् ७३ 'कुल.' कुलस्वजनमित्रभेदनकारिकाः-वंशज्ञातिसुहृद्विनाशजनिकाः ७४ 'पर०' परदोषप्रकाशिका:--अन्यदोषप्रकटकारिकाः ७५। 'कय०' कृतं वस्त्राभरणपात्रादि प्रदत्तं घ्नन्ति--सर्वथा नाशंयन्तीत्येवंशीलाः कृतघ्नाः ७६ 'पलसों०' बलं-- पुरुषवीर्य प्रति सङ्गऽसङ्ग वा शोधयन्ति-गालयन्तीत्येवंशीलाः बलशोधिकाः, यद्वा बलेन-स्वसामर्थ्यलक्षणेन निशादौ जारपुरुषादीनां शोधिका:- तच्छुद्धिकारिकाः बलशोधिकाः यद्वा ववयो रलयोरैक्यात वरशोधिकाः स्वेच्छया पाणिग्रहणकारित्वात् धम्मिल्लस्त्रीवृन्दवत् ७७ 'एकं.' एकान्ते-विजने हरणं नेतन्यपुरुषाणां विषयार्थमेकान्तहरणं यद्वा एकान्ते-दूरग्रामनगरदेशादौ स्वकुटुम्बादिजनरहिते हरणंतत्र पुरुषाणां विषयार्थ लावा गमनमित्यर्थः, तत्र कोला:--

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166