Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
१५२ ]
तन्दुलवैचारिक प्रकोर्णकम्
कामिनरद्वित्र्यादिसम्भवे सति उन्मत्ताः कुरामाः अन्यस्य ददति उल्लातं - प्रबलपादप्रहारमित्यर्थः तथा अन्यः कश्चिद् बलिवद्दरूपः कटान्तरितः - कटान्तर्वर्त्ती प्रच्छन्नरक्षितो भवतीति, तथा अन्यस्तत्कटाक्षवाणसमूहेन ग्लानीकृतः पटकान्तरे - वस्त्रविशेषान्तरे स्थापितो भवेत् ग्लानवदिति ॥ १२४ ॥
'गंगाए० सोहे कु०' अनयोर्व्याख्या - गङ्गायां वालुकां - वेलुकणान् सागरे - समुद्रे जलं - जलपरिमाणमित्यर्थः हिमवतो - महाहिमवन्नगस्य परिमाणम् - ऊर्ध्वाधस्तिर्य परिधिप्रतरघनमानं, उग्रस्य - तीव्रस्य तपसो गतिं -- फलप्राप्तिरूपां गर्भोत्पत्तिं च 'विलयाए 'ति वनिताया- नार्याः सिंहे कुण्डबुकारमिति रूढिगम्यं पुट्टलं - निजजठरोद्भवं 'कुक्कुहाइयंति गतिकाले शब्दविशेषं अश्वे--घोटके जानन्ति - अवगच्छन्ति बुद्धिमन्तः -- प्रज्ञावन्तः महिलायाः कूटकपटद्रोहपरवञ्चनपरायाः प्रबलमन्मथाग्निधगधगायमानायाः अतर्कितातुच्छोच्छलितकलकण्ठोद्गीयमानमधुरगेयध्वनिमृगीकृतमुनिवराया ललाटपट्टतटघटितघनश्रीखण्डतिलकचन्द्रचकोरीकृतचतुरायाः पीनपयोधरपीठलुठनिर्मलामलकस्थूलमुक्ताफलहारश्वेतदृग्विषभुजङ्गमग
,
तविवेक चैतन्यकृतानेकपण्डितायाः हृदयं -- गूढान्तःकरणं न जानन्ति -- न सम्यगवगच्छन्तीति, उक्तश्च — "स्त्री जातौ दाम्भिकता भीरुकता भूयसी वणिग्जातौ रोषः क्षत्रियजातौ द्विजातिजाती पुनर्लोभः ॥ १ ॥ "

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166