Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 135
________________ १३० ] तन्दुलौचारिकप्रकोर्णकम् यद्वा-विनाशः-क्षयः, कस्य ?-बलस्य-सैन्यस्य कूणिकस्त्रीपद्मावतीवत् ६ 'सूणा०' पुरुषाणां शुना-बधस्थानं सूरीकान्ताराज्ञीवत् ७ नाशो लजायाः, लज्जारहितत्वात् , लक्ष्मणप्रार्थनकारिकासूर्पणखावत् , यद्वा लज्जानाशः अस्याः सङ्ग पुरुषस्य लज्जानाशो भवति, गोविन्दद्विजपुत्रवत् , यद्वा नाश:-क्षयः 'लज्जाए'त्ति लज्जायाः-संयमस्याषाढभूतियतिचारित्ररत्नलुण्टिकानटपुत्रिकावत् ८ 'संक०' शंकर:-अवकरः उकरडो इति जनोक्तिः , कस्य ?-अविनयस्य, श्वेतागुल्यादिपुरुषाणां भार्यावत् ह 'निल.' निलयो-गृहं, कासां १-निकृतीनां--आन्तरदम्भानामित्यर्थः, चण्डप्रद्योतप्रेषिताभयकुमारवश्चिकावेश्यावत् १० । ___ 'खणी०'ति खनिः--आकरः, कस्य ?-वैरस्य, जमदग्नितापसस्त्रीरेणुकावत् ११ शरीरं शोकस्य वीरककान्दविकस्त्रीवनमालावत् १२ भेदो-नाशः मर्यादायाः-कुलरूपायाः श्रीपतिश्रेष्ठिपुत्रीवद यद्वा मर्यादायाः संयमलक्षणायाः विनाशः, आर्द्रकुमारसंयमस्य आर्द्रकुमारपूर्वभवस्त्रीवत् १३ 'आसाउ०'त्ति आशा-वाञ्छा रागस्य-कामरागस्य तद्वेतुकत्वात् , यद्वा आश्रयः--स्थानं रागस्य, उपलक्षणत्वात् द्वेषस्यापि, आपत्वादाकारः, यद्वा आ--ईषदपि अ इति निस्वादः आ अस्वादः, कस्य १--रागस्येति-धर्मरागस्य १४ 'निल.' निलयो--गेहं, केषां ?--दुश्चरित्राणां भूयङ्गमचौरभगिनीवीरमतीवत् १५ ।

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166