Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
१४० ]
तन्दुलगैचारिकप्रकीर्णकम्
पुनः किंभूता ?--वज्रा-वज्रतुल्येत्यर्थः, दारुणविपाकहेतुत्वात् , 'अपसूया वजासणी'ति पाठे अप्रसूता--अपत्यजन्मरहिता वज्जेति वर्या-सुन्दराकारा एवंविधा रामा असणीति-अशनिःविद्युत् , बालानां नरकादौ दारुणदहनहेतुत्वात् 'अप्पसूया वजासुणी'त्ति पाठे तु अप्रसूता-नवयौवना परिणीता अपरिणीता वा सालङ्कारा अनलङ्कारा वा मुण्डा अमुण्डा वा एवंविधा रामा 'सुणी'ति हडकिलाशुनीवत्-मण्डलीवत् 'वज्जेति वा सर्वथा साधुभिर्मोक्षकाङ्क्षिभिः ब्रह्मचारिभिश्च-चतुर्थव्रतरक्षाकाक्षिभिः वर्जनीयेत्यर्थः कायवाङ्मनोभिरिति ६१ ।
'असलि.' अजलप्रवाहः 'असलिलप्पलावो'त्ति पाठान्तरं अजलप्लावः-जलं विना रेल्लिरित्यर्थः ६२ ‘समुद्दरउ'त्ति समुद्रवेगः केनापि धत्तु मशक्यत्वात् 'समद्धरउ'त्ति पाठे तु सम्यक् अर्ध यस्मात् स समर्थः, एवं विधः 'रअ'त्ति वेगः परमस्नेहवतां बान्धवानां परस्परं स्त्रीकलहे सति गृहाधधकरणहेतुत्वात् , भद्रातिभद्राख्यौ श्रेष्टिपुत्राविव ६३॥ १ ॥
अवि याई तासिं इत्थियाणं अणेगाणि नामनिरुत्ताणि पुरिस कामरागप्पडिबढे नाणाविहेहिं उवायसयसहस्सेहिं वहबंधणमाणयंति पुरिसाणं नो अन्नो एरिसी अरी अथित्ति नारीओ, तंजहा-नारीसमा न नराणं अरोओ नारीओ १ । नाणाविहेहिं

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166